________________
काव्यानुशासनमें [११५) अ. ६. सू. ३ परार्थाभिधानं वृत्तिः। सा च यद्यपि समास-तद्धित-नामधातुभेदेन त्रिविधा लुप्तायामुदाहरिष्यते तथापीह समासतद्धितयोरेव संभवति । यथा
नेरिवोत्पलैः पौर्मुखैरिव सर:श्रियः । तरुण्यइव भान्ति स्म चक्रवाकैः स्तनैरिव ॥५०१॥ [ ] अत्र इवेन नित्यसमासः । गाम्भीर्यमहिमा तस्य सत्यं गङ्गा भुजङ्गवत् । दुरालोकः स समरे निदाघाम्बररत्नवत् ॥५०२॥ [ ] अत्रेवार्थे तुल्यार्थे च वतिस्तद्धितः । ११५) एकद्वित्रिलोपे लुप्ता ॥३॥
उपमानादीनां मध्यादेकस्य द्वयोस्त्रयाणां वा यथासंभवं लोपे लुप्तोपमा । सा च वाक्ये वृत्तौ च ।
एकलोपे वाक्यगता यथा-- .. अनाधिव्याधिसंबाधममन्दानन्दकारणम् । न किश्चिदन्यदस्तीह समाधेः सदृशं सखे ॥६०३॥ [ ]
अत्र यद्यपि सदृशशब्दाभिधेयस्योत्कृष्टतरगुणत्वेनाप्राप्यताप्रतिपादनादुपमानत्वं बलादायातम् , तथापि तस्य साक्षादनिर्देशादुपमानस्य लोपः । तथा
धन्यस्यानन्यसामान्यसौजन्योत्कर्षशालिनः । करणीयं वचश्चेतः सत्यं तस्यामृतं यथा ॥५०४॥ [ ]
अत्राह्लादकत्वादिधर्मलोपः । उपमेयोपमावाचकयोस्तु वाक्ये लोपो न संभवति । द्विलोपे, यथा
नित्यसमास इति । ये तु इवेन समास नेच्छन्ति, तन्मते वाक्योपमायामिदमुदाहरणम् । समासोपमायां तु
अवितथमनोरथपथप्रथनेषु प्रगुणगरिमगीतश्रीः । सुरतरुतदृशः स भवानमिलषणीयः क्षितीश्वर न कस्य ॥५३९॥ [ ] इत्युदाहार्यम् ।
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org