________________
११४) अ. ६ सू. २ ] काव्यानुशासनम्
११४) सोपमानोपमेयधर्मोपमावाचकानामुपादाने पूर्णा वाक्ये वृत्तौ च ॥२॥
सेत्युपमा। प्रसिद्धमुपमानमप्रसिद्धमुपमेयम् । प्रसिद्धयप्रसिद्धी च कविविवक्षावशादेव । धर्मो मनोज्ञत्वादिः । उपमावाचका इव-वायथा-शब्दाः सदृशसन्निभादयश्च । अमीषामुपादाने पूर्णा । सा च वाक्ये वृत्तौ च भवति । वाक्ये, यथा
क्षणं कामज्वरोच्छित्त्यै भूयः सन्तापवृद्धये । वियोगिनामभूच्चान्द्री चन्द्रिका चन्दनं यथा ॥५००॥
५
- प्रसिद्धमिति । इन्दुमुखी कन्या इत्यादी प्रसिद्धं चन्द्रायुपमानम्, १० अप्रसिद्धं तु मुखाद्युपमेयम् । ननु
ततः कुमुदनाथेन कामिनीगण्डपाण्डुना । नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता ॥५३८॥
[म. भा. द्रो. प. अ. ८ श्लो. ४०८] इत्यादी कामिनीगण्डादेरुपमानत्वं चन्द्रादेश्वोपमेयत्वमुपलभ्यते, तत्कथमुच्यते १५ प्रसिद्धमुपमानमप्रसिद्धमुपमेयमित्याशङ्कयाह
प्रसिद्धयप्रसिद्धी चेति । तथा हि स्त्रीमात्रस्य गण्डपाण्डुतायाः कल्पनानुपपत्तेः । कामयते प्रियतममिति यौगिकत्वाश्रयणे कामिनीशब्दात्प्रतीयमानहृदयस्थितदुर्लभमनोहारिप्रियतमाया गण्डचन्द्रादप्यधिकचमत्कारदायित्वेन प्रधानतया प्रसिद्ध इति कविविवक्षावशादेव प्रसिद्धयप्रसिद्धी अङ्गीक्रियेते । न सर्वलोकप्रसिद्धयेत्यर्थः । यैरपि प्राकरणिकमुपमेयमप्राकरणिकमुपमानमिति पक्षः समाश्रियते, तैरपि कविप्रसिद्धिरवश्यमङ्गीकर्तव्यैव । तथा हि-चन्द्रकामिनीगण्डादिना प्रसिद्धगुणेनाप्राकरणिकेन प्राकरणिकं मुखचन्द्राद्यप्रसिद्धगुणमुपमीयते । उप समीपे मीयते क्षिप्यते स्वसादृश्यपरिप्रापणादुपमेयं येन तदुपमानम् । यत्तु तेन समीपे क्षिप्यते सौन्दर्यादिगुणयोगित्वेन तत्र प्राकरणिकेऽप्रसिद्धं वदनचन्द्रादि २५ तदुपमेयम् । 1. I. प्रसिद्धाप्रसिद्धी 2 A. B. तत्र प्रकरणे C. तत्र प्रकरणो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org