SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् ११३) अ. ६. सू. १] न केवलं भाति नितान्तकान्तिर्नितम्बिनी सैव नितम्बिनीव । यावद्विलासायुधलासवासास्ते तद्विलासा इव तद्विलासाः ॥४९९॥ ५ तत्र देशेनोपमानोपमेययोर्भेदः, यथा-'मथुरेव पाटलिपुत्रमाढयजनपदम्। कालेन, यथा- 'वसन्त इव हेमन्तः कामिना सुखहेतुः'। क्रियया, यथा-'नृत्तमिव गमनमस्याः सविलासम्' । गुणेन, यथा‘गौरीव श्यामा सुभगा'। जात्या, यथा-'विप्र इव क्षत्रियः श्रोत्रियः। द्रव्येण, यथा-'तीर्थकर इव गणधरः पूज्यः' । समवायेन, यथा‘विषाणित्वमिव दंष्टित्वं हिन्नम्' । अभावेन, यथा-'मेक्षि इव समाधौ दुःखाभावः' । इत्यादौ कल्पितोपमायामन्यैरुत्पाद्योपमेत्यपरैरतिशयोक्तिरिति च व्यपदेश्यायां वर्णनीयस्य वस्तुनः प्राप्तोत्कर्षस्य धर्मस्य च साम्यसमन्वयसमुद्भवसातिशयत्वविरहात्सर्वेषां पुराणानां सद्भतानां पदार्थानां नूतनमसद्भतं किमपि काल्पनिकमुपमानं धर्मान्तरं वा विवक्षितसातिशयत्वसंपत्तये कवयः समुल्लिखन्ति । तथानन्वयेऽपि वर्ण्यमानसौकुमार्यमाहात्म्यात् काल्पनिकमप्युपमानमुपपन्नम् । . ननु वास्तवस्य द्वित्वस्याविद्यमानत्वात् , उभयनिष्ठत्वाच्चोपमानोपमेयभावव्यवस्थितरुपमया सह लक्षणानन्यत्वमनन्वयस्य न संभवतीत्याशङ्कयाहपकस्यापि भेदः कल्प्यत इति । अयमभिप्रायः-समारोपितरूपस्य द्वित्वस्याभ्युपगमायुपमानोपमेयभावसंबन्धनिबन्धनत्वमुपमाया लक्षणं विद्यत एवेति नानन्वयः पृथगलकारत्वेन वाच्य इति । विलासायुधः कामः । अत्र सैव नितम्बिनीवेत्येतत्तद्विलासा इवेत्येतचोपमानतया विश्रान्तिमलभमानमन्यव्यावृत्तौ लक्षणयावतिष्ठते ।। विषाणित्वमिव दंष्ट्रित्वमिति । अत्र (145) 'समासकृत्तद्धितेषु संबन्धाभिधानम्' इति वचनात्संयोगस्य चाभावादर्थात्समवायस्य संभवाद्यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने (146) त्वतलो' इति त्वप्रत्ययेन समवायस्याभिधानम् । तस्य च सत्यप्येकत्वे उपाधिनिबन्धनं भेद. कल्पनै नान्याय्यम् । ततश्च विषाणोपाधिकः समवाय उपमान दंष्ट्रोपाधिकस्तूपमेय इति । मोक्ष इवेति । मोक्षे दुःखाभाव इव समाधौ दुःखाभाव इत्यर्थः । 1. I. कामिनीसुख° 2 A. B. drop हि २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy