________________
षष्ठोऽध्यायः अर्थालङ्काराणामेकोनत्रिंशतमाह
१९३) हृधं साधर्म्यमुपमा ॥१॥
कार्यकारणादिकयोरसंभावादुपमानोपमेययोरेव साधर्म्य भवतीति तयोरेव समानेन धर्मेण सम्बन्ध उपमा । हृद्यं सहृदयहृदयाह्लादकारि। ५ बेन सत्त्वज्ञेयत्वप्रमेयत्वादिसाधम्र्थे नोपमा, तथा — कुम्भ इव मुखम् ' इत्यादि शङ्गारादौ च । हास्यादौ तु न दोषः । हृद्यग्रहणं च प्रत्यलङ्कारमुपतिष्ठते । साधयं च देशादिभिर्मिनानां गुणाक्रियाद्विसाधारणधर्मत्वम् । अभेदे टेकत्वमेव स्यात् । तेन 'पुरुष इव पुरुषः' इति सत्यपि पुरुषद्वयस्य पुरुषत्वानुगमलक्षणे साम्ये नोपमा...यदा तु, द्वितीयः पुरुषशब्दः शब्दशक्तिमूलव्यङ्ग्यपरतयाक्दातकर्मवचनस्तदानीं भिन्नत्वाद्भवत्येव । यथा
निघ्नन्नभिमुखः शूरोऽनेकशो बहुशः परान् ।' सङ्कामे विचरत्येष पुरुषः पुरुषो यथा ॥४९८॥ [ ]
एवं यत्रासाधारणताप्रतिपादनार्थमेकस्यापि भेदः कल्प्यते तत्रा. १५ प्युपमा भवति, यथा
एकोनत्रियतमिति । उपमोत्प्रेक्षारूपकनिदर्शनदीपुकान्योक्तिपूर्यायोक्तातिशयोक्त्याक्षेपविरोधसहोक्तिसमासोषितजातिव्याजस्ततिव्यतिकशान्तर न्यासससन्देहापडतिपरिवृत्त्यनुमानस्मृतिभ्रान्तिविषमसमसमुच्चयपरिसंख्याकारणमालासंकराणाम् ।
असाधारणताप्रतिपादनार्थमिति । एतत्सदृशमन्यद् नास्तीत्यसाधारणता तत्प्रतिपादनार्थमित्यर्थः । यथा 'उभौ यदि व्योम्नि पृथक्प्रवाहो'
1. I. कार्यकारणयोरसं° 2. I. drops हृदय 3. I. पुरुषत्वानुगमनलक्षणे 4 I. drops शब्द - द्वितीयपुरुषशब्दशक्तिः 5. P. L रानेक.. 6. P. drops यथा 7. A. drops थैमित्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org