________________
३३७
१११) अ. ५ सू. ७ ] काव्यानुशासनम्
स यस्य दशकन्धरं कृतवतोऽपि कक्षान्तरे गतः स्फुटमवन्ध्यतामधिपयोधि सान्ध्यो विधिः। तदात्मज इहाङ्गदः प्रहित एष सौमित्रिणा । क्व स क्व स दशाननो ननु निवेद्यतां राक्षसाः ॥४९६॥
अत्र 'तदात्मज इहाङ्गद' इति साकाङ्या काक्वा स्वगता वालिपुत्रोचिता विशेषा अर्घ्यन्ते ।
'निर्वाणवैरिदहनाः 'इति ।
अत्र भवन्तीति साकाका काकुर्भवनाभावमाह-भवन्त्विति । वचनोच्चारणं त्वर्थेऽसंभावनां विदधदभावस्य निषेधात्मनो विषयं भवन- १० लक्षणमर्पयन्ति । न भवन्त्येवेत्यर्थः । या काकुपठितिस्तत्प्रभावादित्यर्थः । एवमुत्तरत्रापि साकाङ्ककाकूदाहरणद्वये व्याख्येयम् ।
ननु श्रुतमर्थमनादृत्य कथं काकुरर्थान्तरं प्रतिपादयेत् । तत्रोक्तमन्यैःवस्तुस्वभावोऽत्र द्रष्टव्यः, न हि दृष्टेऽनुपपन्न नाम' इति । वयं तु ब्रूमः-इह १५ येय प्रथमेन संवित्स्यन्देन प्राणोल्लासनया वर्णादिविशेषरूपहीना वाग्जन्यते सा नादरूपा सती हर्षोत्कादिचित्तवृत्ति विधिनिषेधाद्यभिप्राय वा तत्कार्यलिङ्गतया वा तादात्म्येन वा गमयतीति तावस्थितम् । तथा च प्राण्यन्तरस्य मृगसारमेयादेरपि नादमाकण्ये भयरोषशोकादि प्रतिपद्यते तदयं नादाच्चित्तवृत्त्याद्यवगमोऽ. नुमान तावत् । ये त्वेते वर्णविशेषास्ते तन्नादरूपसामान्यात्मकवाक्तन्तुप्रन्थिमया २० इव प्राच्यप्रयत्नातिरिक्तनिमित्तान्तरापेक्षस्तत एवान्यत्राप्यभिप्रेतेऽन्यथापि प्रयोक्तुं शक्याः । अत एव दृष्टव्यभिचाराः । नादस्तु झटित्युद्भिनमुखरागपुलकस्थानीयो नान्यथाकर्तुं पार्यत इत्यनन्यथासिद्धोऽन्यथासिद्धं शब्दार्थ बाधत एव वा यथोक्तं भीरुन मे भयमिति । अन्यप्रकारतां वा वाक्यार्थस्य विशेषार्पणेन विधत्ते ।
वचनोचारणमिति । वचनस्य भवन्तीति रूपस्य ॥ इति । आचार्यश्रीहेमचन्द्रविरचिते विवेके पश्चमोऽध्यायः॥
1. A. B. दृष्टिव्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org