________________
३३६
५
काव्यानुशासनम् [१११) अ. ५ सू: ७ सा च काकुर्द्विविधा-साकाङ्का निराकाडा च । वाक्यस्य साकानिराकाकत्वात् । यस्माद्वाक्याद्यादृशः सङ्केतबलेनार्थः प्रतीयते, न तादृश एव किन्तु न्यूनाधिकः प्रमाणबलेन निर्णययोग्यस्तद्वाक्यं साकाङ्कम् । तद्विपरीतं निराकाम् । वक्तृगता ह्याकाङ्क्षा वाक्य उपचर्यते । सा च प्रकरणबलान्निश्चीयते । विशिष्टविषयत्वं च तस्यास्तत एवावसीयते ।
विषयोऽपि त्रिविधोऽर्थान्तरम्, तदर्थगत एव विशेषः, तदर्थाभावो वा । यथा-'देशः सोऽयमरातिशोणितजलैः' इति । अत्र साकाङकाकुप्रभावात् 'ततोऽभ्यधिकं कुरुते' इत्यर्थान्तरे गतिः । यत्पठ्यते । विसों नाम वाक्यन्यासः । अनुबन्धो नाम पदान्तरेष्वविच्छेदोऽनुच्छ्रसनम् । दीपनं नाम त्रिस्थानशोभि वर्धमानस्वरं च । प्रशमनं नाम तारगतानां स्वराणामवैस्वर्येणावतरणम् । तत्र हास्यशृङ्गारयोरर्पणविच्छेददीपनप्रशमनसंयुक्तं पाठयं कार्य विच्छेदप्रशमनयुक्तं करुणे । विच्छेदप्रशमनार्पणदीपनानुबन्धबहुलं वीररौद्राद्भुतेषु । विसर्गविच्छेदार्पणयुक्तं बीभत्समयानकयोरिति । सर्वेषामप्येतेषां मन्दमध्यतारकृतः प्रयोगत्रिस्थानस्थो भवति । तत्र दूरस्थाभाषणे तारं रिसा, नातिदूरे मध्य कण्ठेन, पार्श्वतो मन्त्रमुरसा प्रयोजयेत्पाठयमिति । मन्द्रात्तारं गच्छेत्ताराद्वा मन्द्रमिति ।
[ना. शा. अ. १९. श्लो. ५८ अनन्तरम् (C. S. S.) अ. १७. *लो. ११७ अनन्तरम् (N. S.)]
तदेवं ध्वनिधर्मविशषस्य काकोः पाठधर्मत्वमवस्थितम् ।
साकामिति । मन्द्रादितारान्तमपरिसमाप्तवर्णालङ्कारं कण्ठोरःस्थानगत यथा भवति तथैतत्पठनीयम् ।
तद्विपरीतमिति । यादृशो वाक्यात्संकेतबलेनार्यः प्रतीयते तादृश एव यत्रान्यूनाधिकः प्रमाणबलेन निर्णययोग्यस्तदिति ।
निराकाडुमिति । मन्द्रादितारान्त परिसमाप्तवर्णालङ्कार शिरःस्थानगतं यथा भवति तथेदं पठनीयमित्यर्थः ।
काकुप्रभाषादिति । उदात्तकम्पितवर्णस्योचवीप्तालद्वारस्य वासमाप्त्या
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org