SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ १११) अ. ५ सू. ७ ] काव्यानुशासनम् स्वरेण पाठमारभ्य क्रमेण तारं गत्वा मध्येन परिसमाप्नुयादित्यभिप्रायः । उदातानुदात्तस्वरितकम्पिता वर्णाः । तत्र हास्यशृङ्गारयोः स्वरितोदात्तैर्वर्णैः पाठ्यमुपपाद्यम् । वीररौद्राद्भुतेषूदात्तकम्पितैः करुणबीभत्सभयानकेष्वनुदात्तस्वरितकम्पितैरिति । द्विविधा तु काकुः साक्षादत्रैव प्रतिपादयिष्यते । (144) उच्च दीप्तश्च मन्द्रश्च नीचो द्रुतविलम्बितौ । पाठयस्यैते अलङ्काराः - इति । [ ना. शा. अ. १९. श्लो. ४५ (C. S.) अ. ३७ वो. १०७ ( N. S.) ] 1 3 उम्चो नाम शिरः स्थानगतस्तारः स्वरः । स च दूरस्थाभाषणविस्मयोतरोत्तरसंजल्पबाधा त्रासनाद्येषु । दीप्तो नाम शिरः स्थानगतस्तारतरः । स चाक्षेपकलहविवादामर्षोत्कुष्टा धर्षणको धशौर्यदर्प तीक्ष्णरुक्षाभिधाननिर्भर्त्सनाक्रन्दादिषु । मन्द्रो नामोरःस्थानस्थः । निर्वेदग्लानचिन्तौत्सुक्य दैन्यव्याधिगाढशस्त्रक्षतमूर्छामदादिषु । नीचो नामोरः स्थानस्थो मन्द्रतरः । स स्वभावाभाषणव्याधितयःशान्तत्रस्तपतितमूर्च्छितादिषु । द्रुतो नाम कण्ठगतस्त्वरितः लल्लमन्मनभयशीत. ज्वरार्त त्रस्तायस्तात्ययिककार्यावेदनादिषु । [ ना. शा. अ. १९. श्लो. ४५ अनन्तरम् (C. S.), अ. ३७ श्रो. १०७ अनन्तरम् ] लल्ल सविलासम् । मन्मनमव्यक्तम् । अहमेव मनो मन्ता यत्रेत्यनेनाश्रूयमाणम् । ललसम्मनौ नायिका तावेव बालविनोदन सान्त्वनादौ । मुञ्च मुश्चेत्येवंप्रायपराभियोमानङ्गीकरणादौ वेति । आत्ययिकं शीघ्रसम्पाद्यं यत्कार्य तस्यावेदनम् । विलम्बितो नाम कण्ठस्थानस्थो मन्द्रः । शृङ्गारवित कविचारामर्षा सूयितान्यकार्थप्रवादयाचिन्ता तर्जितविस्मितदीर्घरोगनिपीडनादिषु । • [ना. शा. अ. १९ श्लो. ४५ अनन्तरम् (C. S.) अ. १७ श्लो. १०७ अनन्तरम् ( N. S.) ] हास्यशृङ्गारकरुणेष्विष्टा काकुर्विलम्बिता । रौद्राद्भुतेषूम्बा दीसा चापि प्रशस्यते ॥ ३३५ भयानके सबीभत्से द्रुता नीचा च कीर्तिता । एवं भावरसोपेता काकुः कार्या प्रयोक्तृभिः ॥ [ना.शा. अ. १९. श्रो. ५७-५८ ( C. S.) अ. १७ श्लो. ११६-११७ ( N. S.)] अङ्गानि विच्छेदोsर्पणं विसर्गोऽनुबन्धों दीपनं प्रशमनमिति । तत्र वि च्छेदो नाम विरामकृतः । अर्पण नाम लीलायमानमधुरवल्गुस्वरेण पूरयतेक र 1. Bharata has दूराह्वान after संजल्प - 2. C. दैन्याव्याधिः Bharata has दैन्यानेशव्यांधि 3 - Bhatata has लज्जित Jain Education International For Private & Personal Use Only १० १५ २० २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy