________________
३३४
काव्यानुशासनम्
[१११) अ. ५ सूं. ७
स्यात्, न पाठः । अत एव गानवैलक्षण्ये सम्पन्ने बाह्यार्थसमर्पणेन चित्तवृत्तिसमर्पणया वाभिनयानुभावरूपतालाभाय काकुरर्थरसभेदेनाभिधीयते । तत एव काकुरूपत्वमेव सर्वत्रानुयायि, अमिनयत्वे तु मुख्योपयोगात् । तथा चोथ्ववीप्ता
लङ्कारेष्वपि काकुशब्देनैव मुनिर्व्यवहरति । काकोरेव हि प्रकारसंपादकाः ५ परिपूर्णताधायिनोऽलङ्काराः । अलमिति पर्याप्त्यर्थ इह, न भूषणार्थः । अङ्गानि तु विच्छेदादीनि रसमर्थ शोभादिकं च पोषयितुं काकोरेवोपकारीणीत्येवं परमार्थतः काकुरेक्यं पञ्चभी रूपान्तरैः पूर्णीक्रियते । काक्वा च पच्यमानस्य स्वोचितचिज्जडरूपार्थाभिमुख्यनयनेनाभिनयतादीयत इति काकुरेवात्र प्रधानमिति ।
2
१०
१५
२०
२५
तत्र च सप्त स्वरा: षड्जऋषभगान्धारमध्यमपश्च मधैवतनिषादवन्तः । एते रसेषूपपाद्याः [ ना. शा. अ. १९. श्लो. ३७ अनन्तर (CS. ) अ. १७ श्लो. ९९ अनन्तरम् ( N. S.) ]
(140) हास्यशृङ्गारयोः काया स्वरौ मध्यमपञ्चमौ । षड्जर्षभौ तु कर्तव्यौ वीररौद्राद्भुतेष्वथ ॥
(141) निषादवान् सगान्धारः करुणे संविधीयते । धैवतचापि कर्तव्यो बीभत्से सभयानके ॥
[ ना. शा. अ. १९. श्लो. ३८-३९. (C. S.). भ. १७ 27.900-909 ] (N. S.)
3
( 142 ) त्रीणि स्थानानि -उरः कण्ठः शिर इति । अयमर्थः --- शारीर्ये वीणार्या केवलमुरः शिरः कण्ठलक्षणेभ्यस्त्रिभ्यः एव स्थानेभ्यो न तु षडुष्टेः ?) स्वरः परित्यक्तरञ्जनात्मकगानो पयोगित्वब्यापारः काकुभूतः संप्रवर्तते । बाह्यायां हि वीणायां प्रतिबिम्बात्मिकायां रञ्जनात्मकस्वस्वररूपव्यतिरेकेण न काकुसंपत्तिः । यदाह
(143) शारीर्यामथ वीणायां त्रिभ्यः स्थानेभ्य एव तु । उरसः शिरसः कण्ठात्स्वरः काकुः प्रवर्तते ॥ [
}
[ ना. शा. अ. १९ श्लो. ४० (C. S.), अ. १७ श्लो. १०२ ( N. S ) ]
तत्र उरोनिष्पन्ने मन्द्रनादेन समीपस्थानां कण्ठनिष्पन्नेन मध्यनादेन नातिदूरस्थानां शिरोनिष्पन्नेन तारेण दूरस्थानामाभाषणविधिः कार्यः । यद्वा मन्द्र2. A. B omit काकुरेवेय; C. रेवायं
1. N. समर्थ 3. N. षड्जष्टः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org