________________
-
१११) अ. ५. सू. ७ ] काव्यानुशासनम्
कान्तेऽहं मधुसूदनो व्रज लतां तामेव मध्वन्विता-.. मित्थं निर्वचनीकृतो दयितया हीतो हरिः पातु वः ॥४९५॥
[ सु. श्लो. १०४ ] काकुवक्रोक्तिस्त्वलङ्कारत्वेन न वाच्या । पाठधर्मत्वात् ! तथा च
(34) · अभिप्रायवान् पाठधर्मः काकुः स कथमलकारीस्यादिति यायावरीयः।' [का. मी. अ. ७ पृ. ३१] गुणीभूतव्याचप्रभेद एव चायं। शब्दस्पृष्टत्वेनार्थान्तरप्रतीतिहेतुत्वात् । यदाह ध्वनिकारः
(35) अन्तरगतिः काक्वा या चैषा परिदृश्यते । सा व्यङ्गयस्य गुणीभावे प्रकारमिममाश्रिता ॥ -
[ध्वन्या. उ. ३. का. ३९ ] काकुवक्रोक्तिरिति । 'कफि लौल्ये' इत्यस्य धातोः काकुशब्दः। तत्र हि साकांकनिराकाझ्यादिकमेण पठ्यमानोऽसौ शब्दः प्रकृतार्थातिरिक्तमपि वाञ्छतीति लौल्यमस्याभिधीयते । यदि वा ईषदर्थे कुशब्दस्तस्य कादेशः, तेन हृदयस्थवस्तुप्रतीतेरीषभूमिः काकु: । काकुळ जिह्वा तद्व्यापारसम्पाद्यत्वात्काकुः। १५ तद्रपा वक्रोक्तिः काकुवक्रोक्तिरिति ।
पाठधर्मत्वादिति । तथा च भरतः
(139) सप्त स्वरास्त्रीणि स्थानानि चत्वारो वर्णा द्विविधा काकुः षडमहाराः षडझानीति पाठ्यगुणाः। [ना. शा. अ. १९ श्लो. ३७ अनन्तरं (c. S. S.) २०
अ. १७ श्लो. ९९ अनन्तरं (N. S.)] तत्र काको स्वरा एव वस्तुत उपकारिणः । तत्परिकरभूतं तु स्थानादि । स्वरेषु प्रकृतिभूतेषु काकुरूपता जन्यते । तत्र स्थानशब्देनैषां स्वरूपनिष्पत्तेराश्रयो दर्शितः । उदात्तानुदात्तस्वरितकम्पितरूपतया स्वराणां यद्रक्तिप्रधानत्वमनुरणनमय तत्त्यागेनोच्चनीचमध्यमस्थानस्पर्शित्वमात्रं पाठयोपयोगीति दर्शितम् । २५ यदि हि स्वरगता रक्तिः पाठये प्राधान्येनावलम्ब्येत तदा गानक्रियासो
1. A. B. drop निराकाङ्क्षा 2 A. drops अनुदात्त 3. A. B. यद्वयक्ति 4. N. °वलम्ब्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org