________________
-
३३० , काव्यानुशासनम् [११०) अ. ५ सः ।
११०) अर्थैक्ये ब्यादिभाषाणां च ॥६॥ द्वित्रिचतुष्पञ्चषण्णां भाषाणामर्थाभेदे युगपदुक्तिचादिभाषाश्लेषः । तत्र संस्कृतप्राकृतमागधपिशाचसूरसेनापभ्रंशभाषाणां द्वियोगे पश्चदश, त्रियोगे विंशतिः, चतुर्योगे पञ्चदश, पञ्चयोगे षट्, षड्योगे एकः ।
इत्यत्र समासोक्तित्वम् । तत्पुरःसर इति आगच्छन्त्या इव सन्ध्यायाः कामुकवद् दिवसः पुरःसरः संमुखं सरतीति व्याख्येयम् । न तु पदातिन्यायेनाग्रे दिवसी गच्छति सन्ध्या च पश्चादिति । एवं हि वर्षशतैरपि समागमो न भवतीति किं चित्रम् ।
'नालस्य प्रसरः' इत्यादौ अन्योक्तित्वम् । यो गोपीजनवल्लभः स्तनतटव्यासङ्गालब्धास्पद- .
श्छायावानवरक्तको बहुगणश्चित्रश्चतुर्हस्तकः ।। कृष्णः सोऽपि हताशया व्यपहृतः कान्तः कयाप्यद्य मै
किं राधे मधुसूदनो न हि न हि प्राणाधिकश्चोलकः ।।५३॥ [ ]
इत्यत्र ससन्देहत्वम् । यदि वान्योक्तेः सारूप्यादिः, ससन्देहस्य च १५ सादृश्यादिः, श्लेषव्यतिरेकेण विविक्तोऽप्यस्ति विषयस्तदात्रापि श्लेषस्यान्योक्तिससन्देहानुप्राहकत्वेन प्रवृत्तत्वात्संकरत्वं भवतु, न तु लेषत्वमिति ।
अलौकिकमहालोक-प्रकाशितजगत्रय । स्तूयते देव सद्वंशमुक्तारलं न कैर्भवान् ॥५३५॥ [
आदाय चापमचलं कृत्वा हीनं गुणं विषमदृष्टिः ।। २० यश्चित्रमाच्युतशरो लक्ष्यमभाहीन्नमस्तस्मै ॥५३६॥ [ . ]
अचल पर्वतं निश्चलं च । अहीनां सर्पाणामिनं स्वामिन हीन च । विषमा त्रिरूपा अस्थिरा च । अच्युतः कृष्णः गतिशून्यत्र । __ अखण्डमण्डल: श्रीमान् पश्यैष पृथिवीपतिः ।
न निशाकरवजातु कलावैकल्यमागतः ॥५३७॥
इत्यादौ च एकविषयरूपकविरोधव्यतिरेकानुप्राहकः श्लेष इति सकर एवायम् । एवमन्यत्राप्यूयमिति ।।
1. A. B. दिवसपुरःसरः C. N. drop सरः 2. A. drops विषयरूपक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org