________________
३२९
१०९) अ. १ सू. ५] काव्यानुशासनम्
इत्यादौ तु सङ्करत्वमेव युक्तम् । अथवा न्यायपरीक्षायामुपमात्वमेव । तथा हि-यथा गुणक्रियासाम्य उपमा, तथा शब्दमात्रसाम्येऽपि दृश्यते । ' सकलकलं पुरमेतजातं संप्रति सितांशुबिम्बमिव' इत्यादौ । न च तत्र श्लेषत्वं वक्तुंयुक्तम् । पूर्णोपमाया निर्विषयत्वापत्तेः। गुणक्रियासाम्ये सा भविष्यतीति चेत्, न । अर्थश्लेषस्य निर्विषयत्वप्रसङ्गात् । अथ 'दिशः प्रसादयन्नेषः' इत्यादौ वक्ष्यमाण उपमाविरहितोऽर्थश्लेषस्य विषयः कल्प्यते । तद् द्वयोरप्यन्यत्र लब्धसत्ताकयोरकत्र संनिपाते संकरतैव प्रामोति । गुणक्रियासाम्यमुपमा शब्दसाम्यं तु श्लेष इति विशेषस्यानभिधानाच्छब्दसाम्यमप्युपमाया विषयः। श्लेषस्य तूपमया विरहित इति 'स्वयं च पल्लवा-'. इत्यादावुपमैव न्याय्या । १० एवं च-'अबिन्दुसुन्दरी नित्यं गलल्लावण्यबिन्दुका' इत्यादौ न विरोधप्रतिभोत्पत्तिहेतुः श्लषोऽपि तु श्लेषप्रतिभोत्पत्तिहेतुर्विरोध एव । अत्र हि श्लेषस्य प्रतिभामात्रं न तु प्ररोहः। न च विरोधाभास इव विरोधः श्लेषाभासः श्लेषः । तस्मादेवमादिषु वाक्येषु श्लेषप्रतिभोत्पत्तिहेतुरलङ्कारान्तरमेव ।
4
सुखेनाप्तुं यन्न शक्यं फलं तत्र लुब्धानामीहितं प्रददाति । सन्ध्यापशे-उज्ज्वलसूर्यमरीचिभिः शोभिता, स्वापफले विश्रान्तो यो न लुब्धस्तद्विषये हित प्रददाति ।
अलकारान्तरमिति । समासोक्त्यादिरूपम् , न तु श्वेष इत्यर्थः । तथा च--
अनुरागवती सन्ध्या दिवसस्तत्पुरःसरः । महो दैवगतिश्चित्रा तथापि न समागमः ॥५३३॥ [ 1. I drops वक्तुं 2. I. drops वाक्येषु, र पोषु 3. I. drops हेतु 4. A. B. फलैः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org