________________
काव्यानुशासनम् [१०९) अ. ५. सू. ५ विषं निजगले येन बभ्रे च भुजगप्रभुः । देहे येनाङ्गजो दधे जाया च स जयत्यजः ॥४८४॥ [ ]
अत्र गिलितं, निजे गले च दग्धो वपुषि चेति स्यादित्यादिविभक्त्योर्भङ्गः।
प्राज्यप्रभावः प्रभवो धर्मस्यास्तरजस्तमाः । ददतां निर्वतात्मान आयोऽन्येऽपि मुदं जिनाः ॥४८५॥
. [ति. मं. श्लो. २.] अत्रैकवचनबहुवचनयोर्भङ्गः । एषामेव वर्णादीनामभङ्गाद्यथाअसावुदयमारूढः कान्तिमान् रक्तमण्डलः । राजा हरति लोकस्य हृदयं मृदुभिः करैः ॥४८६॥
[का. द. परि. २. श्लो. ३११] उदयः शक्त्युपचयो गिरिविशेषश्च । रक्तमण्डलोऽनुरक्तप्रकृतिररुणबिम्बश्च । राजा नृपतिश्चन्द्रश्च । मृदुभिरखेदावहैः करैर्दण्डादिभिः किरणैश्चेत्यभङ्गः शब्दश्लेषः ।
अत्र प्रकरणादिनियमाभावाद् द्वावप्यर्थी वाच्यौ। न चायमर्थालङ्कार इति वाच्यम् । अन्वयव्यतिरेकाभ्यां शब्दगतत्वेन प्रतीयमानत्वात् । तथा हि उदयादिशब्दप्रयोगेऽलङ्कारस्तदर्थशक्त्युपचयगिर्यादिप्रयोगे तु नेति तद्भावतदभावानुविधायित्वाच्छब्दालङ्कार एवायम् ।
स्वयं च पल्लवाताम्रभास्वत्करविराजिनी । प्रभातसंध्येवास्वापफललुब्धेहितप्रदा ॥४८७॥
[उद्भटालंकार पृ. ५५] ननु स्वरितादिगुणभेदाद्भिन्नप्रयत्नोचार्याणां तदभेदादभिन्नप्रयत्नोच्चार्याणां च शब्दानां बन्धोऽलङ्कारान्तरप्रतिभोत्पत्तिहेतुः शब्दश्लेषोऽर्थ लेषश्चेति द्विविधोऽ. प्ययमर्थालङ्कारमध्ये गणितोऽन्यैरित्याशङ्कयाह-न चायमर्थालङ्कार इति ।
स्वयं चेति । गौरीपक्षे-किसलयवद्दीप्यमानाभ्यां कराभ्यां शोभते ।
२०
२५
1. A. B. put
after
RTOGTETI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org