________________
१०९) अ. ५ सू. ५] काव्यानुशासनम्
आत्मनश्च परेषां च प्रतापस्तव कीर्तिनुत् । भयकृद्भूपते बाहुर्द्विषां च सुहृर्दा च ते ॥ ४८२ ॥ अत्रनौति नुदत्योः करोतिकृन्तत्योश्च प्रकृत्योर्भङ्गः ।
त्वदुद्धतामयस्थानरूढवणकिणाकृतिः ।
विभाति हरिणीभूता शशिनो लाञ्छनच्छविः ॥ ४८३॥ [ ] हरिणीभूतेति मृगीभूता, श्यामा संपन्नेति च । अत्र च्विडीप्रत्यययोर्भङ्गः ।
शोभनपारदे त्वयि सत्यां त्वत्प्रभावेन संसारसागरादुत्तीर्यत इत्यर्थः । तथा सुसममनपभ्रंशमानं शब्दं यदि वा ब्रह्मस्तम्बपर्यन्तचतुर्दशविधभूतसर्गे नित्योदिततया सुसमं साधारणत्वेनावस्थितं शब्दब्रह्म दत्तो ये ते तादृश्यौ । अपरोऽर्थः शूरसेन्याः - ' हे गौरि, जगत्सु सर्वदा दे तव तपः शक्तिर्वज्रवदतिदृढलब्धिः । अनपायिनी वर्तत इत्यर्थः । कीदृशि । रदे आसते । क्व । संसारे । सत्ते श्रेयःप्रधाने सत्त्वे सुशमैश्चित्तोद्रे कजयिभिर्मुमुक्षुभिः प्रणते चित्तजय एव हि मोक्षः । तथा च -
(138) चित्तमेव हि संसारो रागादिक्लेशदूषितम् । तदेव तद्विनिर्मुक्तं मोक्ष इत्यभिधीयते ॥ [ संस्कृतस्यापभ्रंशेन यथा---
आगममणिसुदम हिमसमसंमदकृदपरजस्तु । किर सविभयवदितोसमय उज्जलभावसहस्सु ॥५-३२॥ [ दे. श. श्लो. ७९] हे देवि, अपरजस्सु विगलितमोहेषु उत्क्रान्तजडतायां सत्यां बलं येषां तेषु पुरुषेष्वनवसरे आगमा एव प्रकाशकत्वान्मणयस्तथा शोभनो दमश्चित्तोपशम एव निर्वापकत्वात् हिमं तयोः संबन्धी योऽसौ समोऽनाकुलो हर्षस्तं कृन्तति यत् तदर्थादज्ञानम् । इतः संसारात् किर क्षिप । सविभयवत् यज्विनां भयं यथा किरसि तद्वदज्ञानं किरेत्यर्थः । परोऽर्थः जस्सु पर यस्य केवलमागमाचेतसि तथाश्रुतमहिमा शास्त्रावबोधशमादिविषयनिग्रहाः एते च सर्वे साम्यमनाकुलत्वं ददानाः कृताः । किल सापि भगवती तोषमय निर्मलपदार्थसहस्रं सहस्रशब्दो बाहुल्यार्थे । देवीप्रसादविलसितं तत्तस्येति वाक्यार्थः ।
1
2
1. A. B. धस्तथासमावि. C. धस्तथासमाधि In C. the readings in the whole line are very corrupt. 2. A. B. C. सो
Jain Education International
]
For Private & Personal Use Only
३२७
१०
१५
२०
२५
www.jainelibrary.org