________________
३२६
१०
१५
२०
२५
काव्यानुशासनम्
१०९ ) अ. ५. सू. ५ ]
प्राकृते दीर्घः । सलिलं तत् । सारसश्रेणिकूजितेन शूरं विरहिणां मारणसमर्थ - त्वात् । कमलमधुग्राहकैरलिभिः श्रेष्ठम् | मारयति शाम्यतो मुनीनपीत्यर्थः । विषमं वियोगिभीषणम् । अनेकपक्षिसंकुलं सलिलं दृष्ट्वा मुनयोऽपि क्षुभ्यन्ति किमु विरहिण इत्यर्थः ।
संस्कृतस्य पैशाच्या यथा
कमनेकतमादानं सुरतनरजतु च्छलं तदासीनम् ।
अप्पतिमानं खमते सोऽगनिकानं नरं जेतुम् ॥ ५२९॥
[ रु. का. लं. अ. ४. लो. १३ ] कस्यचित्केनचित्पौरुषे स्तुतेऽन्योऽसहमान आह- हे सुरते प्रधानपुरुष, न तु रणे । खमते शून्यबुद्धे स त्वया वर्ण्यमानो राजादिः कं नरं जेतुमजतु गच्छतु । नास्त्येवासौ यं सोऽभिभवति । कीदृशं बहुतमोत्पत्तिस्थानम् । मायां प्रसिद्धामाश्रयमाणम् । अर्थान्तरवृत्तित्वेन सकर्मकता । यद्वा मूर्तच्छद्मरूपं लब्धपदं च । अपां पत्युर्वरुणस्येव मानो यस्य । पर्वतस्येव निकानः कान्तियस्य । ( 137 ) ' कनी दीप्तिकान्तिगतिषु ' इति हि पठ्यते । अथवा न गच्छतीत्यगोऽनश्वरः । अभ्रष्टकान्तिमित्यर्थः । एवंविधा यदा नराः सन्ति तदा स त्वदुक्तः कमिव जयत्विति वाक्यार्थः । अथवा एवंविधा यदा न सन्ति सर्वे तेन यतो जितमतः स कं नरं जेतुमजत्विति । स्तुतिरेवात्रापरोऽर्थः पिशाचभाषायाः ।
कामे कृतमदाः सुरत्नरजतोच्छलद्दासीः ।
अप्रतिमाः क्षमते स गणिका न रञ्जयितुम् ||५३०॥ [
1
अत्र हि द्वितीयार्थे षष्ठी । केनचिद्वेश्यानामुपचारः कृतः, ताभिस्तु तस्य न कृत इति सोऽत्र वर्ण्यते ।
"
संस्कृतस्य शौरसेन्या यथासंवादिसारसम्पत्ती सदागोरिजयेऽसुदे ।
3
तवसतीरदे सत्ते संसारे सुसमानदे ॥ ५३१ ॥ [ दे. श. श्लो. ७८ ] हे देवि प्राणदायिनि तव सम्बन्धिन्यौ सत्ते सतो विद्यमानस्य शोभनस्य च भाव इति द्वौ भावौ विद्यमानतोज्ज्वलतालक्षणौ विद्यमानापराधरिपुजयविषये विज्ञायमाना बलस्य समृद्धिर्ययोः ते तथाविधे वर्तत इत्यर्थः । अरिविजये जनस्य तव सान्निध्यमौज्ज्वल्यं च लक्ष्यत इति भावः । अन्यत्ते सत्ते भवसागरे
1. A. B. °तिरिव 2. A. B. शूरसेन्या 3. A. B. विजये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org