________________
१०८) अ. ५ सू. ४ ] काव्यानुशासनम्
३५३ अत्र 'शरौ' इति कर्मणो गूढत्वम् । संबन्धगूढं यथान मया गोरसाभिज्ञं चेतः कस्मात्प्रकुप्यसि । अस्थानरुदितैरेभिरलमालोहितेक्षणे ॥४७६॥
[ का. द. परि. ३. श्लो. १०८ ] अत्र न मे चेत आगोरसाभिज्ञमिति संबन्धगूढम् । पादगूढं यथाद्युवियद्गामिनीतारसंरावविहतश्रुतिः। हैमेषुमाला शुशुभे ॥४७७॥
अत्र - विद्युतामिव संहतिः' इत्यस्य गूढत्वाद् गूढत्वम् । गूढादीत्यादिपदेन प्रश्नोत्तरप्रहेलिकादुर्वचकादिग्रहः। एतच कष्टकाव्य- १० त्वात्क्रीडामात्रफलत्वाच्च न काव्यरूपतां दधातीति न प्रतन्यते ।
प्रश्नोत्तरेति । तथा चाह(136) यस्तु पर्यनुयोगस्य निर्भेदः क्रियते बुधैः । विदग्धगोष्ठयां वाक्यैर्वा तद्धि प्रश्नोत्तरं विदुः ॥
[ सरस्वतीकण्ठाभरण परि. २. श्लो. १४८] १५
यथा
काहमस्मि गुहा वक्ति प्रश्नेऽमुष्मिन् किमुत्तरम् । कथमुक्तं न जानासि कदर्थयसि यत्सखे ॥५२५॥
अत्र कदर्थयसीत्येतत् कथवर्णाभ्यां मुक्तं दर्यसीत्युत्तरम् । एतच्च अन्तःप्रश्नबहिःप्रश्नजातिप्रश्नादिभेदैरनेकप्रकारं प्रकृतानुपयोगात्कविशक्तिख्यापनफलत्वान्न २. प्रतन्यते ।
प्रहेलिका यथापयस्विनीनां धेनूनां ब्राह्मणः प्राप्य विंशतिम् । ताभ्योऽष्टादश विक्रीय गृहीत्वैकां गृहं गतः ॥५२६॥ [ 1. I °गूढत्वं 2. I drops न 3. I चेतसा गो०, L चे सा गो #. A. drops जातिप्रश्ना 5 A. B. गृहे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org