SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३२२ काव्यानुशासनम् [१०८) अ. ५ सू. ४ अत्र 'इन्दु' इत्यत्र नकारो व्यञ्जनं च्युतम् । बिन्दुच्युतं यथा सहसा नलिनी ताराशारिता गगनावनिः । शोभते भूमिपालानां सभा च विबुधाश्रिता ॥४७२॥ सह हसेन विकासेनेत्यपि । वर्णच्युतं यथासितनृशिरःस्रजा रचितमौलिशिरोमणिमौक्तिकैस्तथा शिखिरुचिरोर्ध्वदृक् पृथुललाटतटे तिलकक्रिया च सा । स्फुटविकटाहासललितं वदनं स्मितपेशलं च तद् अभिनवमीश्वरो वहति वेषमहो तुहिनाद्रिजार्धयुक् ॥४७३॥ अत्र गौरीश्वरवर्णने सिद्धिच्छन्दसि प्रतिपादमाद्याक्षरद्वयपातेऽन्त्याक्षरसप्तकच्युतौ चेश्वररूपवर्णनमेव प्रमिताक्षरावृत्तेन । यदि वा आद्याक्षरसप्तकच्युतौ अन्त्याक्षरद्वयपाते च गौरीवर्णनं द्रुतविलम्बितवृत्तेन । गूढं क्रियाकारकसंबन्धपादविषयत्वेन चतुर्धा । क्रियागूढं यथा स्तनगुरुजघनाभिराममन्दं गमनमिदं मदिरारुणेक्षणायाः । कथमिव सहसा विलोकयन्तो मदनशरज्वरजर्जरा युवानः ॥४७४ ॥ हे युवानः कथमिव यूयं न स्त इति क्रियागूढम् । कारकगूढं यथा-- केनेमो दुर्विदग्धेन हृदये विनिवेशितौ । पिबतस्ते शरावेण वारिकल्हारशीतलम् ॥४७५॥ [ 1. I. सबन्धपाद ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy