________________
१०८) अ. ५ सू. ४] काव्यानुशासनम्
३२१ ____ क्रोधस्य विनाशिन्य एताः क्षमाः शोभना अविकाराश्च त्वमसि । अतो हेतोर्य उन्नतः प्रकृष्टः सता शोभनेन मार्गेण ईहितो व्यापारितः सततं ताः सेवते स तेऽनुकूलः ।
करोषि तास्त्वमुत्खातमोहस्थाने स्थिरा मतीः । पदं यतिः सुतपसा लभतेऽतः सशुक्लिम ॥५२२॥ [दे. श. श्लो. १००] ५
हे उन्मूलिताज्ञानपदे यतस्ता मतीमैत्रीप्रमुदितादिका अचलास्त्वं करोषि, अतो हेतोः यतिर्मुमुक्षुः सह शुक्लिम्ना वर्तते यत्तत्पदम् । तमोमलहीनमित्यर्थः। अचटवर्गः । चत्वार एते नेमिश्लोकाः । एभ्यश्च प्रथमं प्रथम त्रीणि त्रीण्यक्षराणि लिख्यन्ते । चतुर्थ चारश्लोकप्रारम्भाक्षरं भवति । इत्थं नेम्यनिमौलनम् । पुनरनुलोमलिखितार लोकषोडशकाच्चैवमेवान्त्यमक्षरं त्रिषु त्रिषु १० लिखितेषु चतुर्थ भवतीति नेमेद्वितीयमधे मीलितं भवति । एवमेव चान्तलिखितैस्तैरेव नेमिश्लोकै भिनिमीलनं भवति । अत एव चारद्वात्रिंशते । नेमिस्थानान्नाभितो वा तृतीयं तृतीयं चाक्षरमादाय वर्णद्वात्रिंशतः श्लोकोऽयमुत्पाद्यते ।
देव्या स्वप्नोद्गमादिष्टदेवीशतकसंज्ञया । देशितानुपमामाधादेतां नोणसुतो नुतिम् ॥५२३॥ [दे. श. १०१] १५
देव्या वागीश्वर्या स्वप्नाविर्भाव आदिष्टा या देवीशतकमिति संज्ञा तया देशो निर्देशो विद्यतेऽस्यास्तस्या भावो देशिता तयानुपमां देवीस्तोत्रतया सर्वातिशायिनी नोणसुतः श्रीमानानन्दवर्धननामा स्तुतिमिमामकार्षीदिति ।
पद्मं यथाभासते प्रतिभासार रसाभाताहताविभा । भावितात्मा शुभा वादे देवाभा बत ते सभा ॥५२४॥ [ ]
हे प्रज्ञातिशयोत्कृष्ट, वादे रसेन समन्ताद् दीप्ता हता अशोभा यया । एकाग्रीकृतहृदया वादे एव । देवैर्विजिगीषुभिः पण्डितैराभा यस्याः । बते. त्याश्चर्ये निपातः । एषोऽष्टदलपद्मबन्धः । तथा हि-भाशब्दः कर्णिकास्थाने । ततोऽक्षरद्वयेनैकं दिग्दलं निःसरणक्रमेण विदिग्दलं चाक्षरद्वयेन प्रवेशक्रमेण । २५ ततः स एव भाशब्दः । ततोऽक्षरद्वयेन दिग्दलं निर्गमप्रवेशाभ्यां भाशब्द यावत् । ततोऽक्षरद्वयेन विदिग्दलं निर्गमेण तावतैव दिग्दलं प्रवेशेन भाशब्द यावत् । पुनर्भाशब्दो निर्गमेण च तदेवाक्षरद्वयमित्यादिना क्रमेण दलाष्टकमुत्पाद्यमिति दिग्दलवर्णानां द्विर्भाशब्दस्य चाकृष्टत्व आवृत्तिः ।।
आदिग्रहणात् हल -शक्ति-स्थूल-स्वस्तिक-नागपाशादयो ज्ञेयाः । ___ 1. A. °र्भात्सानो 2. A. drops निर्गमेण च तदेवा and repeats दिग्दलनिर्गम etc
४१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org