________________
काव्यानुशासनम् [१०८) अ. ५ सू. ४
हे देवि, यतो निर्मला । सभासु । शोभनता । तिष्ठति । स्तवात् । तव । सदा साधोः । तथा विस्तीर्णा । विद्यमानता । एति दीर्घायुर्भवतीत्यर्थः । क्षिप्ता ईतिसूतिरुपद्रवप्रभवो यस्यामस्तितायाम् । ततो हेतोः शोभना ऊतिः सुरक्षा | सा प्रसिद्धा भवसि त्वम् । यक्षरः ।
खदाज्ञया जगत्सर्व भासितं मलनुद्यतः । सदा त्वया सगन्धर्वससिद्धमरिनुत्तितः ॥५१६॥ [ दे. श. श्लो. ९४ ]
हे मलनुत् आवरणनिवारिणि, त्वच्छासनेन त्रैलोक्य वर्तते । यतो रिपुक्षेपणात्त्वया प्रकाशितम् । अर्धगोमूत्रिकाबन्धः ।
यतो याति ततोऽत्येति यया ता तायतां यतेः ।। मातामितोत्तमतमा तमोतीतां मतिं मम ॥५१॥ [दे. श. श्लो. ९५.]
यया मत्या यतो निवर्तते ततो विमुच्यते तां मम मतिं विगततमस्कां तायतां पालयताम् । भवतीत्यर्थः । या मतिश्चतुर्थाश्रमस्थस्य जननी। अपरिच्छिन्ना । अत एव प्रकृष्टतमा । त्र्यक्षरः । एते षोडश श्लोकाश्चके नेमेरारभ्य
नाभिं यावत् अनुलोमतो लिखिताः षोडशाराः । अत एव च नाभेरारभ्य १५ पुनरनुलोमतो लिखिता अन्ये षोडश । इत्थं द्वात्रिंशदराः ।
महत्तां त्वं श्रिता दासजनं मोहच्छिदावस । यः शुद्धत्वं गतः पापमन्यस्य प्रसभं जय ॥५१८॥ [दे. श. 'लो. ९६]
माहात्म्यम् । हे मोहच्छिदज्ञाननाशिनि । आवस अधितिष्ठ । इति द्विविधो हि जनः, अपापः सपापश्च । अटवर्ग:
त्वं साक्षासु जगन्मातः स्पष्टज्ञाता सुवर्त्मसु । प्रज्ञा मुख्या समुद्भासि तत्पृथुत्वं प्रदर्शय ॥५१९॥ दे. श. श्लो. ९७]
हे जगन्मातर, विविक्तं विदिता सती त्वं शोभनवर्त्मसु सन्मार्गेषु विषये आज्ञासु निरूपणासु सा मुख्या प्रज्ञा वर्तते । तस्याः प्रज्ञायाः पृथुत्वं समुद्रासनशीलं प्रकटीकुरु । अस्मादेव चेयमार्या प्रादुर्भवति
आज्ञासु जगन्मातः स्पष्टज्ञाता सुवत्मसु प्रज्ञा । भासि त्वं सा मुख्या समुत्पृथुत्वं प्रदर्शय तत् ॥५२०॥ [दे. श. *लो. ९८]
शोभनं वर्त्म येषां तद्विषयासु राजसे । स्पष्टं समुत्प्रकटमानन्दरूपं महिमानं तस्मात् । शेषं तथैव ।
हन्यो रुषः क्षमा एताः सदक्षोभास्त्वमुन्नतः । सतेहितः सेवते ताः सततं यः स ते हितः ॥५२१॥ दे. श. लो. ९९] 1. C. °ससिद्धिम° 2 A. drops अत 3. A. drops वमसु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org