SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ १०८) अ. ५ सू. ४] काव्यानुशासनम् ३१९ हेतोहे वित् विद्ये, वीतसंज्ञा अवीतसंज्ञाश्च सांख्यानां प्रधानपुरुषसद्भावका दश हेतवस्तद्वतां सांख्यानां तव वित्तत्वं वित्तं भवत्या धनत्वं प्रतीतम् । त्वं धनं प्रसिद्धमित्यर्थः । बतेत्याश्चर्ये । यक्षरः ।। तारे शरणमुद्यन्ती सुरेशरणमुद्यमैः । त्वं दोषापासिनोदप्रस्वदोषा पासि नोदने ॥५११॥ [दे. श. श्लो. ९०] ५ हे ताराख्ये देवी विमले वा, त्वं शरणं सती आश्रितत्राणायोत्तिष्ठमाना । शक्रस्य संग्रामम् । व्यापारैः । दोषक्षेपिणा उद्भटनिजबाहुना रक्षसि । प्रेरणकाले पलायितारो देवा भवतीं शरणमेत्य पुनः संग्रामसमर्थाः सम्पद्यन्त इति वाक्यार्थः । उद्यन्तीत्यत्रान्तादेशश्चिन्त्यः । अनियतावयवं यमकम् । पादगोमूत्रिकापि प्रागुक्तेन सुरदेशस्य ते कीर्तिम् ॥५१२॥ [ इत्यनेन पादपरावृत्तिगोमूत्रिकाबन्धेन सह अमुना पादगोमूत्रिकाबन्धेन तूणबन्धोऽयम् । तथा हि-प्राक्तनश्लोकस्य प्रथमतृतीयपादाक्षरैरधोध:क्रमेण पट्टि द्वये कृते गोमूत्रिकया नालिरुत्पद्यते । अनावृत्त्यान्त्यवर्णाभ्यां तु बुधम् । तदुपरिष्टाच 'तारे' इत्यादिश्लोकपादैर्ध्वक्रमेण पङि चतुष्टये कृते पादगोमूत्रि- १५ कया मुखम् । अन्त्यानां वर्णानामनावृत्त्या शराकर्षणार्थ द्वारप्रदेशदर्शनम्। इति । सुमातरक्षयालोक रक्षयात्तमहामनाः । त्वं धैर्यजननी पासि जननीतिगुणस्थितीः ॥५१३॥ [ दे. श. श्लो. ९१] अक्षयज्ञानरक्षणेन । गृहीतं महन्मनो यया । धैर्योत्पादिका । अनियताबयवं मध्यादियमकम ख्यातिकल्पनदका त्वं सामय॑जुषामितः । सदा सरक्षसां मुख्यदानवानामसुस्थितिः ॥५१४॥ [दे. श. लो. ९२.] ख्यातिरेकत्र वेदानामन्यत्र दानवानां कल्पन छेदनमपि । अद्वितीया । त्रयाणां वेदानां परिपूर्णत्वभाजामपि । इतोऽस्मिल्लोके । अस्माजगतश्च । सरक्षणाभिमुख्यप्रदा । अकृतकानां वेदविशेषणमिदम् । जीवितरूपा सती । २५ सराक्षसानां प्रधानदैत्यानां दुःखासिका सत्यपि । रेफविवर्तकोऽयम । 'पर्य' इत्यत्र रेफ उपरिष्टादधश्व परिवृत्तः । सिता संसत्सु सत्तास्ते स्तुतेस्ते सततं सतः । ततास्तितैति तस्तेति सूतिः सूतिस्ततोऽसि सा ॥५१५॥ [ दे. श. श्लो. ९३ ] १० 1 A. B. सुरादेशस्य २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy