________________
३२४
५
१०
१५
२०
श्लेषः ||५||
काव्यानुशासनम् [१०९) अ. ५ सू. ५
2
१०९) अर्थभेदभिन्नानां शब्दानां भङ्गाभङ्गाभ्यां युगपदुक्तिः
1
' अर्थभेदाच्छन्द भेदः' इति नये वाच्यभेदेन भिन्नानामपि शब्दानां तन्त्रेण युगपदुच्चारणं भिन्नस्वरूपापह्वनम् । श्लिष्यन्ति शब्दा अत्रेति श्लेषः । स च वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनरूपाणां शब्दानां भङ्गादभङ्गाच्च द्वेधा भवति । यथा
अलङ्कारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः । अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो
विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी || ४७८ || अत्र विधुर्विधिश्चेति उकार - इकारयोर्वर्णयोर्भङ्गः । ते गच्छन्ति महापदं भुवि परा भूतिः समुत्पद्यते तेषां तैः समलङ्कृतं निजकुलं तैरेव लब्धा क्षितिः । तेषां द्वारि नदन्ति वाजिनिवहास्ते भूषिता नित्यशो ये दृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा ॥४७९॥ [ सुभा. लो. २५८७ ] अत्र महतीमापदं महत्पदं चेत्यादिपदानां भङ्गः । भक्तिप्रह्नविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये ।
Jain Education International
-
धेन्वा ऊनाम् । एवमन्येऽपि प्रहेलिकाप्रकारा अभ्यूयाः । तथा दुर्वचं दुःश्र दुर्बोधमपि क्रीडायां न विरुध्यते । यथा
नास्त्वारिराष्ट्रे न भ्राष्ट्रे नादंष्ट्रिणो जनाः ।
धार्तराष्ट्राः सुराष्ट्रे न महाराष्ट्रे तु नोष्ट्रिणः ॥५२७॥ नांष्ट्रा राक्षसाः । त्वष्टुरपत्यमिति त्वाष्ट्रो वृत्रस्तस्यारिरिन्द्रस्तस्य राष्ट्रे स्वर्गे । 1. भिन्नांग 2. I. drops शब्दानां 3. I नयेन 4. I. वचनविभक्ति
For Private & Personal Use Only
www.jainelibrary.org