SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ अ. १. सू. १०] काव्यानुशासनम् बाज पादद्वयोपजीवनं यथा तत्तावदेव शशिनः स्फुरितं महीयो यावन तिग्मरुचिमण्डलमभ्युदेति । अभ्युद्गतेऽतुहिनधामनिधौ तु तस्मिन् इन्दोः सिताभ्रशकलस्य च को विशेषः ॥ ४ ॥ यथा च तत्तावदेव शशिनः स्फुरितं महीयो यावत्र किंचिदपि गौरतरा' इसन्ति । ताभिः पुनर्विहसिताननपङ्कजाभिः इन्दोः सिताभ्रशकलस्य च को विशेषः ॥ ४५ ॥ [प्रकाशदत्तस्य पादत्रयोपजीवनं यथा अरण्ये निर्जने रात्रावन्त श्मनि साहसे । न्यासापहवने चैव दिव्या संभवति क्रिया ॥ ४६ ॥ यथा चोत्तरार्धे तन्वङ्गी यदि लभ्येत दिव्या संभवति क्रिया ॥ ४७ ॥ पादचतुष्टयोपजीवने तु परिपूर्ण चौर्यमेवेति न तनिर्दिश्यते । मादिग्रहणात्पदैकदेशोपजीवनम् । यथा नाश्चर्य यदनार्याप्तावस्तप्रीतिरयं मयि । मांसोपयोगं कुर्वीत कथं क्षुद्रहितो जनः ॥ ४८ ॥ यथा च कोपान्मानिनि किं स्फुरत्यतितरां शोभाधरस्तेऽधरः किं वा चुम्बनकारणादयित नो वायोर्विकारादयम् । तत्त्वं सुभ्र सुगन्धिमाहितरसं स्निग्धं भजस्वादरात् मुग्धे मांसरस ब्रुवन्निति तया गाढं समालिङ्गितः ॥ ४९ ॥ 1. A. omits पादद्वयो ... 2. A. B. C. गौरितरा. N. गौरितर. The reading in the text is adapted from K. M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy