________________
काव्यानुशासनम् [अ. १. सू. १० प्रतिबिम्बकल्पनया, आलेख्यप्रख्यतया, तुल्यदेहितुल्यतया, परपुरप्रवेशप्रतिमतया चोपजीवनम् । आदिशब्दात्पदपादादीनां च काव्यान्तराधाँचित्यमुपजीवनम् । पुनरादिपदात्समस्यापूरणाद्याः शिक्षाः ।
यदाह(9) मूलैक्यं यत्र भवेत्परिकरबन्धस्तु दूरतोऽनेकः
तत्परपुरप्रवेशप्रतिम काव्यं सुकविभाव्यम् ॥ [ का. मी. अ. १२ ] यथोत्तरं चामीषां चतुर्णामपि प्राधान्यम् । पदोपजीवनं यथा
दूराकृष्ठशिलीमुखव्यतिकरानो किं किरातानिमान् नाराद्वथावृतपीतलोहितमुखान्कि वा पलाशानपि । पान्थाः केसरिणं न पश्यत पुरोऽप्येने वसन्तं वने मूढा रक्षत जीवितानि शरणं यात प्रियां देवताम् ॥४०॥
यथा च
मा गाः पान्थ प्रियां मुक्त्वा दूराकृष्टशिलीमुखम् । स्थितं पन्थानमावृत्य कि किरातं न पश्यसि ॥ ४१ ॥
पादोपजीवनं यथा
गन्तव्यं यदि नाम निश्चितमहो गन्तासि केयं त्वरा द्वित्राण्येव पदानि तिष्ठतु भवान्पश्यामि यावन्मुखम् । संसारे घटिकाप्रवाहविगलद्वारासमे जीविते को जानाति पुनस्त्वया सह मम स्याद्वा न वा संगमः ॥४२॥
श. १७३] यथा चहंहो स्निग्धसखे विवेकबहुभिः प्राप्तोऽसि पुण्यैर्मया गन्तव्य कतिचिदिनानि भवता नास्मत्सकाशात्क्वचित् । . त्वत्सङ्गेन करोमि जन्ममरणोच्छेदं गृहीतत्वरः को जानाति पुनस्त्वया सह मम स्याद्वा न वा संगमः ॥ ४३ ॥
-
-
1. A. C. प्रिया देवता .. 2. A. B. षटिका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org