SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ अ. १. सू. १०] काव्यानुशासनम् (7) कियतापि यत्र संस्कारकर्मणा वस्तु भिन्नवद्भाति ।। तत् कथितमर्थचतुरैरालेख्यप्रख्यमिति काव्यम् ॥ [का. मी. अ.१२] क्वचित्तुल्यदेहितुल्यतया । यथा अवीनादौ कृत्वा भवति तुरगो य वदवधिः पशुधन्यस्तावत्प्रतिवसति यो जीवति सुखम् । अमीषां निर्माण किमपि तदभूद् दाधकरिणां । वन वा क्षोणीमुद्भवनमथवा येन शरणम् ॥ ३६ ॥ अत्रार्थे प्रतिगृहमुपलानामेक एव प्रकारो मुहुरुपकरणत्वादर्घिताः पूजिताय । स्फुरति हतमणीनां किं तु तद्धाम येन क्षितिपतिभवने वा स्वाकरे वा निवासः ॥ ३७ ॥ यदाह(8) विषयस्य यत्र भेदेऽप्यभेदबुद्धिनितान्तसादृश्यात् । तत्तुल्यदेहितुल्यं काव्य बध्नन्ति सुधियोऽपि ॥ [ का. मी. अ. १२] क्वचित्परपुरप्रवेशप्रतिमतया । यथा यस्यारातिनितम्बिनीमिरमितो वीक्ष्याम्बरं प्रावृषि स्फूर्जद्गजितनिजिताम्बुधिरवस्फाराभ्रवृन्दाकुलम् । उत्सृष्टप्रसभाभिषेणनभयस्पष्टप्रमोदाश्रुमिः किञ्चित्कुञ्चितलोचनाभिरसकृय़ाताः कदम्बानिलाः ॥ ३८ ॥ अत्रार्थे आच्छिद्य प्रियतः कदम्बकुसुमं यस्यारिदारैर्नवं यात्राभङ्गविधायिनो जलमुचां कालस्य चिन्ह महत्त् । हृष्यद्भिः परिचुम्बितं नयनयोधस्तं हृदि स्थापित सीमन्ते निहितं कथश्चन ततः कर्णावतसीकृतम् ॥ ३९ ॥ .दर्थिताः 1. C. °दर्पिताः, N. 2. A. B. विषमस्य 3. A. B. उन्मृष्ट Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy