SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [. १. सू. १० काव्य एव पौनःपुन्येन प्रवृत्तिरभ्यासः। अभ्याससंस्कृता हि प्रतिभा काव्यामृतकामधेनुर्मवति । यदाहुः (5) " अभ्यासो हि कर्मसु कौशलमावहति । न हि सकृन्निपतितमात्रेणोदबिन्दुरपि प्रावणि निम्नतामादधाति" इति । शिक्षयेत्युक्तमिति शिक्षा लक्षयति सतोप्यनिबन्धोऽसतोऽपि निबन्धो नियम छायाधुपजीवनादयश्च शिक्षाः ॥ १० ॥ . सतोपि जातिद्रव्यगुणक्रियादेरनिबन्धनम् । असतोऽपि जाल्यादे१. रेव निबन्धनम् । नियमोऽतिप्रसक्तस्य जात्यादेरेवैकत्रावधारणम् । छायायाः छायाया इति। 'छायाया अर्थादर्थस्य । तदुपजीवन क्वचित्प्रतिबिम्बतुल्यतया । यथा ते पान्तु वः पशुपतेरलिनीलभासः कण्ठप्रदेशघटिताः फणिनः स्फुरन्तः । चन्द्रामृताम्बुकणसेकसुखप्ररूढैयर रैरिव विराजति कालकूटः ॥ ३३ ॥ • यथा च जयन्ति नीलकण्ठस्य नीलाः कण्ठे महाहयः । गलद्गङ्गाम्बुसंसिक्तकालकूटाकुरा इव ॥ ३४ ॥ २. यदाह(6) अर्थः स एव सो वाक्यान्तरविरचना पर यत्र । तदपरमार्थविभेद काव्यं प्रतिबिम्बकल्पं स्यात् ॥ [ का. मी. अ. १२ ] क्वचिदालेख्यप्रख्यतया । तत्रैवार्थे यथा जयन्ति धवलव्यालाः शम्भोर्जूटावलम्बिनः । गलद्गङ्गाम्बुसंसिक्तचन्द्रकन्दाङ्करा इव ॥ ३५ ॥ यदाह1. A. B. छाया अर्था० C. छायां अर्था Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy