SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३१६ १५ २० २५ काव्यानुशासनम् [ १०८) अ. ५. सू. ४ तदुपरि दक्षिणपार्श्वे प्रसृत्योर्ध्वक्रमेण वर्णपञ्चकम् । तदुपरि वामपार्श्वे प्रसृत्य साधारणं वर्णत्रयम् । ततो दक्षिणपार्श्वे प्रसृत्य वर्णसप्तकम् । 3. 2 धनुषो न्यासो यथा- -' मा ' शब्दः शिखा, ततो माकारात् प्रभृत्याद्यम कुटिलमधःक्रमेण विन्यास्यम् । ततो 'धी' शब्दात्साधारणात्प्रभृति 'त्रा शब्दान्तमूर्धक्रमेण न्यासः । ततः 'सं 'शब्दः । पार्श्वे ततः 'त्रा' इति साधा. णः । ततोऽपरपार्श्वे 'सा' इति । ततः 'त्रा' शब्द: साधारण: । ततोऽक्षरषट्कमूर्ध्वक्रमेण न्यास्यम् । ततो 'म' शब्दः साधारणः । 1 1 बाणो यथा माननापरुष लोकदेव सद्रस संनम | मनसा सादरं गत्वा सर्वदा दास्यमङ्ग ताम् ||४९८ || [ रु. का. लं. अ. ५. हो. १० ] पूजयापगतो रोषो यस्यास्ताम् । त्रिभुवनदेवीम् । हे शोभनभक्तिरस । सम्यक् प्रणम । मनसा दास्यं गत्वा । तां देवीम् । अति प्रियाह्वाने | न्यासो यथा - अधोधः क्रमेण वर्णचतुर्दशकम् । ततोऽक्षरद्वयं फलकार्थं साधारणम् । तत ऊर्ध्वक्रमेणाक्षरचतुर्दशकम् । यथा च - प्रथमपादेन ऊर्ध्वक्रमेण शरः । तत ऊर्ध्वं फलस्यादौ 'दे' तदूर्ध्वं च वामभागे 'वीम् । मध्ये 'सः' । दक्षिणतो ' द्र: ' । ततो मध्यसकार एव द्विः । तदुपरि फलाये 'नमो' । अटनेर्वामत ऊर्ध्वक्रमेण 'मनौ' । मूले 'सा' साधारणः । दक्षिणतोऽधः क्रमेण 'दरम्' । 3 दक्षिणवाजे ऊर्ध्वक्रमेण ' गत्वा सर्व ' । ततः शरे 'सामा' वर्णयोरन्तरे 'दा' साधारण: वामवाजेऽधः क्रमेण ' स्यमङ्गताम 1 " चक्रं यथा त्वं वादे शास्त्रसङ्गिन्यां भासि वाचि दिवौकसः । तवादेशास्त्र संस्काराज्जयन्ति वरदे द्विषः || ४९९ ॥ [ दे. श. श्लो. ८० ] हे अभिलषितदायिन, वादे स्वपक्षपरपक्षपरिग्रहे शास्त्रसक्तायां भारत्यां त्वम् । शोभसे । तथा देवा रिपूनभिभवन्ति । कुतः तवाज्ञैवास्त्रं विना शायाभिमन्त्रितं द्रव्यं तद्भावनाया हेतोः । 1. A. B. साधार 3. A. सोमा Jain Education International 2. C. का फलसाधारम् 4. A. B. वनाय For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy