SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ १०८) अ. ५. सू. ४ ] काव्यानुशासनम् पादः । चतुर्थादिभ्यः प्रथमादीनि प्रथमादिभ्यः पञ्चमादीनि पादेभ्योऽक्षराणि गृहीत्वा चतुर्थः पादः। एवं मुसलधनुर्बाणचकपमादय उदाहार्याः । च्युतं मात्रार्धमात्राबिन्दुवर्णगतत्वेन चतुर्धा । तत्र मात्राच्युतकं यथाभूतियोजितभर्तव्यः कृपणाक्रान्तमण्डलः । महापदशुभावास त्वत्समः कुपतिः कुतः ॥४७॥ [ ] अत्र कृपणेति विभूतिभस्म च । महापदेति शुभावासेति संबोधने पदद्वयम् । महापदोऽशुभस्यावासेति पदमेकं च । अर्धमात्राच्युतं यथापयोधरभराक्रान्ते विद्युल्लेखाविराजिते । कान्तः सर्वजनाभीष्टो बाले दुःखेन लभ्यते ॥४७१॥ [ ] मुसलेत्यादि । मुसलधनुषी यथा मायाविनं महाहावा रसायातं लसद्भुजा । जातलीलाऽयथासारवाचं महिषमावधीः ॥४९६॥ [ रु. का. लं. अ. ५ श्लो. ८ ] १५ मामभीदा शरण्या मुत् सदैवारुक्प्रदा च धीः । धीरा पवित्रा संत्रासाबासीष्ठा मातरारम ॥४९७॥ [रु. का. लं. अ. ५ लो. ९. ] संदानितकमिदम् । महान् हावश्चेष्टालङ्कारो यस्याः । वीररसेनागतम् । सारादनपेतं यथासारं न यथासारं वाग्यस्य । प्रतिज्ञाभ्रष्ट्रमित्यर्थः । हे मातः, २० हतवती त्वम् । एवंभूता या सा त्वमारम व्यापारान्तरानिवर्तस्व । मां भयाभासीष्ठाः रक्ष्याः । अभियं ददाति या मुत् :हर्षरूपा । धीः संविद्रपा । मुसलस्य न्यासो यथा-मा इत्यतःप्रमृत्यधोध:कमेण वर्णसप्तकम् । ततो वर्णदेशमात्रं दक्षिणपार्श्व प्रसृत्याधोधःक्रमेण हस्तग्राह्यस्थानार्थ वर्णत्रयम् । ततो वामपार्श्व प्रसृत्य वर्णपश्चकम् । ततो मध्ये 'जा' शब्दः साधारणः । २५ __ 1. A. B. C. मावभीदा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy