SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [१०८) अ. ५. सू. ४ माता नतानां संघट्टः श्रियां बाधितसंभ्रमा । मान्याथ सीमा रामाणां शं मे दिश्यादुमादिजा ॥४६८॥ [रु. का. ५. ६-७ ] मारारिः शिवः । रामो मुसली । आसारतुल्यवेगेन सर्वेषामाद्या। खडः । तथा च द्राढिकान्तरे साधारणो मा-शब्दः । तस्य दक्षिणतोऽध:क्रमेण वर्णाश्चतुर्दश । शिखायां साधारणः साशब्दः । ऊर्ध्वक्रमेण । वामतस्तावन्त एव यावन्माशब्दः साधारणः । एतत्फलम् ! तस्यैव माशब्दस्य दक्षिणतो निःसरणक्रमेण वामतश्च प्रवेशक्रमेण वर्णाः सप्तसप्त । एषा द्राढिका । ततो माशब्दादूर्ध्वक्रमेण गण्डिकायां वर्णत्रयम् । उपरि माशब्दः साधारणः । तस्य दक्षिणतो वामतश्च तथैव चत्वारश्चत्वारो वर्णाः । एतच्च कूलकम् । ततस्तस्य माशब्दस्योपरि वर्णद्वयम् । एतन्मस्तकम् । सामामाशब्दा द्विःपञ्चकृत्वो द्विरावृत्ताः । या दमानवमानन्द-पदमाननमानदा । दानमानक्षमा नित्यधनमानवमानितां ॥४६९ ।। [ दे. श. श्लो. १५] या इन्द्रियजयेन उत्तमो य आनन्दस्तस्य पदम् । विद्यया हि शमं सुखलाभः । मुखस्य पूजां ददाति । निरपभ्रंशभाषणाद्धि मुखं पूज्यं भवति । दानमानक्षमा एव शाश्वतं धनं येषां तैः पुरुषैः पूजिता । मानं ज्ञानम् । २० मुरजबन्धः। तथा हि पादचतुष्टयेन पङ्किचतुष्टये कृते प्रथ मादिपादेभ्यः प्रथमाद्यक्षराणि चत्वारि। चतुर्थादिपादेभ्यः पञ्चमादीनि च चत्वारि गृहीत्वा प्रथमः पादः। द्वितीयात्प्रथमं प्रथमाद् द्वितीयतृतीये द्वितीयतृतीयाभ्यां चतुर्थे चतुर्थात्तृतीयद्वितीये । तृतीयात्पादात्प्रथमम. क्षरं गृहीत्वा द्वितीयः पादः । द्वितीयादष्टमं, प्रथमात्सप्तमषष्ठे, द्वितीय२५ तृतीयाभ्यां पञ्चमे चतुर्थात्षष्ठसप्तमे तृतीयादष्टमं च गृहीत्वा तृतीयः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy