________________
१०८) अ. ५ सू. ४] काव्यानुशासनम्
अत्र पञ्चाक्षरयमनेऽप्यप्रत्यभिज्ञानादप्रत्यभिज्ञायमकम् । सदाव्याजवशिध्याता: सदात्तजपशिक्षिताः । ददास्यजस्रं शिवताः सूदात्ताजदिशि स्थिताः ॥५००॥ [दे. श. 'लो. ८१]
सर्वदा अव्याज जितेन्द्रियैर्ध्याताः। शोभनं कृत्वा गृहीतमन्त्रावर्तनैरभ्यस्ताः । श्रेयस्त्वानि सुष्ठजितं विष्णुस्थानं परं ब्रह्म तत्र स्थिताः । गोमूत्रिका धेनुरियं क्रमव्युत्क्रमाभ्यां चतुर्विशतिप्रकाराः । तथा हि-चतुर्ध्वपि पादेषु पति शो लिखितेषु प्रथमद्वितीययोस्तृतीयचतुर्थयोश्च यदि वा द्वितीयप्रथमयोस्तृतीयचतुर्थयोश्च यदि वा प्रथमद्वितीययोश्चतुर्थतृतीययोश्च यदि वा द्वितीयप्रथमयोश्चतुर्थतृतीययोश्चति । प्रथमद्वितीययोस्तृतीयचतुर्थयोश्च क्रमवैपरीत्याभ्यां प्रकाराश्चत्वारः । एवं प्रथमतृतीययोः शिष्टयोश्च प्रथमचतुर्थयोः शिष्टयोश्च द्वितीयतृतीययोः शिष्टयोश्च १. द्वितीयचतुर्थयोः शिष्टयोश्च तृतीयचतुर्थयो: शिष्टयोश्च चत्वारश्चत्वार इति साकल्येन षट्चतुष्का इति ।
हरेः स्वसारं देवि त्वा जनताश्रित्य तत्त्वतः । वेत्ति स्वसारं देवि त्वा योगेन क्षपिताशुभा ॥५०१॥ [दे. श. श्लो. ८२]
हे देवि, भवतीं गोविन्दस्य भगिनीमुपास्य जनसमूहो निजमुत्कर्ष पर. मार्थतो जानाति । कथम् । चित्तवृत्तिनिरोधेन व्यवहृत्य । कोहग्जनता । विनाशितकिल्बिषा । तथा च मनु:(134) प्राणायामैर्दहेदोषान् प्रत्याहारेण संगतिम् । ध्यानेनानीश्वरान्भावान्धारणाभिश्च किल्बिषम् ॥५०२॥
म. स्मृ. अ. ६ *लो. ७२] २. अनियतावयवं यमकमेतत् । सदानोति यतिज्योतिस्तादृशं तवत्प्रभावतः प्रभावतः समो येन कल्पते मोहनुत्तितः ॥५०३॥ [ दे. श. 'लो. ८३ ]
शोभनम् । आदित्यस्य तुल्यः । मोहविनाशात् । एतेन ज्योतिःस्वरूपा भगवतीति प्रतिपादितम् । यदुक्तम
२५ (135) यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यचन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥५०४॥
[ भ. गी. अ. १५ 'लो. १३] 1. C. drops तत्त्व + M. S. (N. S. P.) reads °दोषान् धारणाभिश्च किल्बिषम् ।
प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान्गुणान ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org