________________
१०८) अ. ५ स. ४ ] काव्यानुशासनम् स्थानमुरःकण्ठादि । तच्चित्रं यथा
अगा गां गाङ्गकाकाकगाहकाधककाकहा । .अहाहाङ्गखगाङ्कागकङ्कागखगकाककः ॥४८०॥ [ ]
कश्चित्पुरुषः स्तूयते-हे गाङ्ग काकाकगाहक गङ्गासम्बन्धीषजलकुटिलगतिविलोडक । त्वं कुत्सितपापान्येव वायसास्तेषां हन्ता । जिहीतेः क्विपि हानं हाः । न हां गतिं जहाति यत्तथाविधमङ्गं यस्य सं खगः । सूर्यश्चिद्रं यस्य स गिरिरर्थान्मेरुस्तत्र ककाख्याः पर्वतपतत्रिणः काककाः शब्दकारिणो यस्य । स त्वं पापहा मेरुनिवासिभिः पक्षिभिरपि प्रख्याप्यमानकीर्तिमगाः स्वर्ग गतोऽसीत्याशंसायां भूत. वन्निर्देशः । कायति अर्थमभिधत्त इति काकः । शब्द ऊणादिके के १० तं करोतीति णिचि तदन्तात् णके च काककः । कण्ठस्थानम् । एवं द्वित्र्यादिस्थाननियम उदाहार्यम् ।
बहुभिः । कङ्कटपताकादिभारयुक्तैः । भयप्रदाः । भुवो भारभूतैः । डुढौकिरे । संजग्मिरे इति यावत् । दुन्दुभिवन्नदनशीलैः । मेघश्यामैः । निर्भयैर्गजैः । गजाः । त्रिव्यजननियमे यथा
देवानां नन्दनो देवो नोदनो देवनिन्दिनः ।। दिवं दुदाव नादेन दाने दानवनन्दिनः ॥४८३॥
[ का. द. परि ३. श्लो. ९३ ] देवो विष्णुः । स्वर्गमुपतापयामास किमिदमित्युपजातशङ्कमकरोत् । नादेन वक्षोस्थिशब्देन । दाने विदारणे । दानवनन्दिनो हिरण्यकशिपोः । आदिग्रह- २० णाच्चतुळजनादिनियमेऽप्यभ्यूह्यम् । द्वियादिस्थाननियम इति । द्विस्थाननियमे यथाअनकलनालमनानातङ्का सदङ्गना । सदानघ सदानन्दिन् नताशासङ्गसंगत ॥४८४॥[ का. द. परि. ३. लो. ९०] 1. I. तदंतादकेणि च. 2. A. B. किमित्युप 3. A. gives सदानघ twice, C. drops सदानघ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org