SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [१०८) अ. ५. सू. ४ व्यञ्जनचित्रं यथा न नोननुनो नुन्नोनो नाना नानानना ननु । नुन्नोऽनुनो ननुनेनो नानेना नुन्ननुन्ननुत् ॥४७९॥ [ कि. स. १५. श्लो. १४ ] रणपरामखा गणाः कुमारेण जगदिरे इति प्रक्रमः । हे नानानना अनेकरूपवदनाः, स न ना, न पुरुषो, य ऊनेन हीनेन जितः। विजितहीनोऽपि पुरुषोऽपुरुषः । ननु सम्बोधने । जितोऽप्यजित एव यो न जितप्रभुः । सोऽपि पाप एव, यो जितं जितं नुदतीति । __ एकव्यञ्जनम् । एवं द्वित्र्यादि व्यञ्जननियमे उदाहार्यम् । विधिविरञ्चिः । ईर्लक्ष्मीस्तस्या इनो भर्ता विष्णुः । ईशः शिवः । इन्द्रो हरिः । ईजः कन्दर्पः । इला भूः। जिनोऽर्हन् । सिद्धा देवविशेषा. । मित्रो रविः । रैदो धनदः । देवाः सुराः । तेषां सम्बन्धिभिः तैस्तैः । अनेकैधयः स्वैर्वित्तैश्च वै स्फुटं सुष्टु । समन्तादधै समृद्धो भवान्यहम् । द्विस्वरनियमे यथाक्षितिस्थितिमितिक्षिप्ति-विधिविन्निधिसिद्भिलिट् । मम त्र्यक्ष नमदक्ष हर स्मरहर स्मर ॥४८॥ [. पृथिव्याः पालनपरिच्छेदं प्रेरणसृष्टीर्वेत्ति निधिसिद्धी लेढि चेति क्विपि संबोधने मां स्मरेति । त्रिस्वरनियमे यथा क्षितिविजितिस्थिति-विहितिव्रतरतयः परगतयः । उरु रुरुधुर्गुरु दुधुवुर्युधि कुरवः स्वमरिकुलम् ॥४८१॥ भूमेर्विजयस्य मर्यादायाश्च विधाने नियमपराः । विस्तीर्णम् । रुद्धवन्तः । दुःसहम् । विक्षिप्तवन्तश्च । युधिष्ठिरादयः । आदिग्रहणाचतुःस्वरादिनियमे. ऽप्यभ्यूह्यम् । वित्र्यादिव्यञ्जननियमे इति । द्विव्यजननियमे यथा भूरिभि रिभिर्भीराभूभारैरभिरेभिरे । भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभाः ॥४८२॥ [ 1. I. नाननानना ननु 2. A. मा 3. C. भिरेभेरेवीरेभिभिरिभ्रार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy