SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ ३०७ ५ १०८) अ. ५ सू. ४] काव्यानुशासनम् एतस्य च कविशक्तिख्यापनमात्रफलत्वेन पुरुषार्थोपदेशानुपायत्वात्काव्यगडुभूततेति भेदलक्षणं न कृतम् । काव्यं हि महाकवयः सुकुमारमतीनां पुरुषार्थेषु प्रवर्तनाय विरचयन्ति । न च पृथग्यत्ननिवर्त्ययमकादिनिरुद्धरसं तत्तथा सुखोपायः । सरित्पर्वतसागरादिवर्णनमपि वस्तुवृत्त्या रसभङ्गहेतुरेव, किमङ्ग न कष्टकाव्यम् । तथा च लोळटः । (33) यस्तु सरिदद्रिसागरनगतुरगपुरारिवर्णने यत्नः । कविशक्तिख्यातिफलो विततधियां नो मतः प्रबन्धेषु ॥ यमकानुलोमतदितरचक्रादिभिदोऽतिरसविरोधिन्यः । अभिमानमात्रमेतद्गड्डरिकादिप्रवाहो वा ॥ इति । १०८) स्वरव्यञ्जनस्थानगत्याकारनियमच्युतगूढादि चित्रम् ।४। स्वरादीनां नियमच्युतं गूढादिश्च चित्रसादृश्यादाश्चर्यहेतुत्वाद्वा चित्रम् । तत्र स्वरचित्रं यथा--- जय मदनगजदमन वरकलभगतगमन । गत जनन गदमरण भवभयगनरशरण ॥४६३।। [ ] हूस्वैकस्वरम् । एवं दीर्धेकस्वरद्वित्र्यादिस्वरनियम उदाहार्यम् । न च पृथग्यत्ननिर्वत्येति । यदाह ध्वनिकारः(110) रसाक्षिप्ततया यस्य बन्धः शक्यक्रिया भवेत् । अपृथग्यत्ननिर्वर्त्यः सोऽलङ्कारो ध्वनौ मतः ॥ इति ॥ 1 [ध्व लो. उ. २. का. १७ ] दीर्धकस्वरद्वियादिस्वरनियमे इति । दी(कस्वरनियमे यथा वैधेरैनैरैशैन्ट्रैरैजैरैलै नैः सैद्धैः । मैत्रै कर्वे धैर्यैः स्वै रैदैः स्वैधै दैवैस्तैस्तैः ॥४७९॥ [ ] 1. I. L. ० च्युतगूढादि २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy