________________
काव्यानुशासनम् [१०८) अ. ५ सू. ४
कश्चित्कामिनमन्यासक्तं निजवधूनिमित्तं सानुनयं काचिदाह-हे सततमपाप, सतामानन्दकारिन्, प्रणताङ्गेष्वनुरागयुक्त सा सल्ललना कामाक्रमणविलग्नानेकपीडा वर्तते । तत्तां रक्षेत्यर्थः ।। दन्तकण्ठलक्षणं स्थानद्वयमत्र । त्रिस्थाननियमे यथा
अलिनीलालकलतं कं न हन्ति घनस्तनि । आननं नलिनच्छायनयनं शशिकान्ति ते ॥४८५॥
[ का. द. परि ३. श्लो. ८१] अलिवन्नीला अलका एव चञ्चलत्वादिना लता यत्र अदन्ततालुकण्ठलक्षणं स्थानत्रयमत्र । एवं चतुःस्थानादिनियमेऽप्युदाहार्यम् ।
अर्धगतप्रत्यागतेत्यादि । अर्धगतप्रत्यागतं यथावेदापन्ने स शक्ले रचितनिजरुगुच्छेदयत्नेऽरमेरे देवासक्तेऽमुदक्षो बलदमनयदस्तोददुर्गासवासे । सेवासर्गादुदस्तोऽदयनमदलवक्षोदमुक्ते सवादे
रेमे रत्नेऽयदच्छे गुरुजनितचिरक्लेशसन्नेऽपदावे ॥४८६॥ [ ] स कश्चित्कस्मिन् रत्ने रत्नभूते पुरुषे रेमे निवृतोऽभवत् । वेदान् आपने । प्रियंवदे । कृतः सहजाया अविद्याख्यरुज उच्छेदे यलो येन । न रमन्ते सुजनेषु धर्मे चेत्यरमान् । दुर्जनानीरयति यः । देवभक्ते । अविद्यमानहर्षाण्यक्षाणि यस्य सः । जितेन्द्रिय इत्यर्थः । शक्त्युपशमनीतीनां दाता । व्यथायाः परकृताया दुर्गा इव दुर्गाः । शूरा इत्यर्थः । तानपि क्षिपन्ति ये तेषां स्थाने । राजप्रणतिकरणानिवृत्तः । अदयया दपाशेन हिंसया च त्यक्ते प्रमाणशास्त्रकुशले । अयमनुकूलं दैवं ये द्यन्ति खण्डयन्ति तान् व्यति छिनत्ति यः । यदि वा अयन् अगच्छन् अच्छो नैर्मल्यं नाम गुणो यस्य तस्मिन् शुद्धचरिते। गुरुभिः शुश्रूष्यमाणैः जनितो यश्चिरं क्लेशस्तेन श्रान्ते तत्र वा सक्ते । पदरहितानवति यः ।
श्लोकगतप्रत्यागतं यथानिशितासिरतोऽभीको न्येजतेऽमरणा रुचा। सारतो न विरोधी न स्वाभासो भरवानुत ॥४८७॥
[ कि. स. १५ श्लो. २२ ] तनुवारभसो भास्वानधीरोऽविनतोरसा । चारुणा रमते. जन्ये को भीतो रसिताशिनि ॥४८८॥
[कि. स. १५ श्लो. २३. ]
1.
N.
2. A. drops प्रत्यागतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org