________________
१०७) अ. ५ सू. ३ ] काव्यानुशासनम्
३०५ तत्समुच्चयः । मध्यादिकमादिमध्यमन्तमध्यं मध्यान्तकं तेषां समुच्चयाः। तथा तस्मिन्नेव पादे आद्यादिभागानां मध्यादिभागेष्वनियतेऽवस्थान आवृत्तिरिति प्रभूततमभेदं यमकम् ।
नारीणामलसं नाभि लसन्नामि कदम्बकम् । परमास्त्रमनङ्गस्य कस्य नो रमेयन्मनः ॥४७१॥
[ रुद्रट का. लं. अ. ३. श्लो. २४ ] अलस क्रियासु सविलासम् । न अभि अपि तु सभयम् । आद्यन्तकं यथापिनाकिने नमस्त्रातदैत्यभीवेपिनाकिने । नीलकण्ठमपीक्षन्ते योगिनो हंसमेव यम् ॥४७२॥ [ . भीवेपिनो भयकम्प्राः । तत्समुच्चय इति । आद्यन्तकान्तादिकयोयोगः । यथाससार साकं दर्पण कन्दर्पण ससारसा । शरं नवाना बिभ्राणा नाविभ्राणा शरनवा ॥४७३॥
प्रववृते । सार्धम् । दर्पण कामेन च । लक्ष्मणाख्यपक्षियुक्ता । काण्डम् । नूतनशकटा । धारयन्ती। न अविभ्राणा अपि तु पक्षिशब्दयुक्ता। ऋतुविशेषः। १५ नूतना। एवं मध्यादिक-आदिमध्य-अन्तमध्य-मध्यान्तकतत्समुच्चयानामुदाहरणान्यभ्यूह्यानि । मध्यादिकादयो भेदाः संभविनोऽपि न हृद्या इति नोदाह्रियन्त इति केचित् ।
तस्मिन्नेव पादे इति । न तु पादान्तरे। तत्रादिभागस्य मध्यभागेनावृत्तिर्यथा
स रणे सरणेन नृपो पलितावलितारिजनः । पदमाप दमात्स्वमतेरुचितं रुचितं च निजम् ॥४७४॥
[ रु. का. लं. अ. ३. श्लो. ५३ ] स संग्रामे । प्रयाणेन हेतुना । बलवत्त्वेन वेष्टितारिजनः । पदं राज्यलक्षणम् । उपशमाद्धेतोः । अनुरूपमभीष्टं च । आदिभागस्यान्तभागेन यथा- २५
घनाघ नाय न नभा घनाघनानुदीरयन्नेति मनोऽनुदीरयन् ।। सखेऽदयं तामविलासखेदयन्त्रहीयसे गोरथवा न हीयसे ॥४७५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org