________________
१०७) अ. ५. सू. ३] काव्यानुशासनम्
३०३ परागतरुराजीव वातैर्ध्वस्ता भटैश्चमूः । परागतमिव क्वापि परागततमम्बरम् ॥४६०॥
[का. द. परि. ३. श्लो. २७ ] पातु वो भगवान् विष्णुः सदा नवघनद्युतिः । स दानवकुलध्वंसी सदानवरदन्तिहा ॥४६१॥
[ का. द. परि. ३. श्लो. २८ ] पदद्वयं कपालिनः पुनातु लोकपालिनः ।
अलीयते नतो हरिः स यत्र पङ्कजप्रभे ॥४६२॥ [ ] एवमन्यान्यप्युदाहार्याणि ।
परागतेति । परा प्रतिपक्षभूता पर्वते तरुपङ्किरिव । अत्र च व्यतिकरे १० परागेण रणरेणुना व्याप्तं गगनं परागतमिव न जाने क्व गतमित्यर्थः ।
सदेति । सर्वदा । स इति विष्णुः । समदस्य कुवलयापीडाख्यस्य वरदन्तिनो हन्ता ।
तत्र पादद्वयगतत्वेन 'सरस्वति' इत्याद्युदाहरणमेकमेव प्रदर्शितम् । पादत्रयगतत्वेन च यमकं केषांचिन्नाभिमतमिति, लक्ष्यव्याप्तिदर्शनाय 'करण' १५ इत्याद्युदाहरणचतुष्टयं दर्शितम् । एतेषु च प्रथमपादाद्यभागस्य द्वितीयपादाद्यभागेष्वावृत्तिर्दर्शिता । पादान्त्यभागस्य द्वितीयपादान्त्यभागेनावृत्तिप्रदर्शनार्थ तु पदद्वयमित्यायुदाहृतम् ।
अन्यान्यपीति । तत्रोदाहृतशेषाण्याद्यभागजानि यथासरस्वति यथा रत्नान्यनन्तानि स्फुरन्ति हि । सरस्वति तथा चित्ते शब्दार्थाः संस्फुरन्तु मे ॥४६२॥ परमा या समृद्धिः स्यात्सुखदुःखविवर्जिता । तस्या हेतुं नमामीशं परमायाविनाशनम् ॥४६३॥ योगिगम्यं गुणातीतं मधुकेतुं विभुं हरिम् । मधु केतुं नमाम्याचे दृप्तदैत्यविनाशनम् ॥४६४॥ [ 1. I puts this verse before भवानि शं etc. 2. A. drops शं परमा 3. C. °विनाशनाम् 4. A. drops from म्यायं to शनम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org