________________
३०२
काव्यानुशासनम् [१०७) अ. ५. ३ महापुरुषः, पुनः, शत्रुसमूहम् , भरात् , वशे वर्तमानम् । बलरहितं, दीर्घाक्रन्द, सर्वकालं संग्रामं प्रापयामास । अवानलसं अपि तु त्वरितं गच्छन् । अस्थीनि तस्यात्युपक्षिणोति । सत्त्वेन ये आरम्भास्तेषु रतः । सर्वथा आश्रितं तरुत्वग् वसनं येन शत्रुसमूहेन । सर्वेषां दारणो यो मानस्तमिच्छति । दवाग्निना समं स्थितं यस्य ।
तथा भागजस्य द्विधा विभक्ते पादे प्रथमपादादिभागः पूर्ववद्वि तीयादिपादादिभागेषु । अन्तभागोऽन्तभागेष्वित्यष्टाविंशतिर्भेदाः । श्लोकान्तरे हि न भागावृत्तिः संभवति । यथा
सरस्वति पदं चित्तसरस्वति विधेहि मे । त्वां विना हि न शोभन्ते नराः काया इवासुभिः ॥४५७।।
करेण ते रणेष्वन्तकरेण द्विषतां हताः । करेणवः क्षरद्रक्ता भान्ति सन्ध्या घना इव ॥४५८॥
[का. द. परि. ३. श्लो. २६] भवानि शं विधेहि मे भवानिशं कृपापरा । उपासनानि यजनोऽभवानि शंसति त्वयि ॥४५९॥
चित्तसरस्वतीति । चितसमुद्रे । अन्तकरणेति । द्विषतामन्तविधायिना ।
भवानीति । हे गौरि, शं सुखम् । अनिशमनवरतम् । न विद्यते जन्म येभ्यस्तान्यभवानि ॥
1. P. ०क्षणोति
+In A. B. C. N. this pratika comes after परागत. But . the order of verses adopted in the original according to P. and. L. require it to precede परागत. It seems that A. B. C. follow the original of I.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org