SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [१०७) अ. ५. सू. ५ चित्तमोहमलेन जडाः । अत्र लालसेति प्रथमलकारोऽलघुप्रयत्नतरः। मलालसेत्यत्र तु लघुप्रयत्नतरः । तथा नकार-णाकारयोरस्वरमकारनकारयोर्विसर्जनीयस्य भावाभावयोरपि न विरोध इति केचित् । यथा वेगं हे तुरगाणां जयन्नसावेति भङ्गहेतुरगानाम् ॥४४७॥ १० क्रमक्या पातयाशु रथं धीर समीरसमरंहसम् । द्विषतां जहि निःशेषं पृतनाः समरं हसन् ॥४४८॥ [ ] द्विषतां मूलमुच्छेत्तुं राजवंशादजायथाः । द्विषद्भयत्रस्यसि कथं वृकयूथादजा यथा ॥४४९॥ [ ] क्रमैक्यग्रहणात् 'सरो रसः' इत्यादौ । प्रवणः प्रणवो यत्र प्रथमः प्रमथेषु यः। रणवान् वारणमुखः स वः पातु विनायकः ॥४५०॥ [ ] इत्यादो च यमकत्वं मा भूत् । १०७) तत्पादे भागे वा ॥३॥ तधमकं पादे तस्य च भागे भवति । तत्र पादजं पञ्चदशधा । तथा हि-प्रथमो द्वितीयादावर्तते द्वितीयस्तृतीयादौ। तृतीयश्चतुर्थ इति षट् । प्रथमो द्वितोयतृतीययोर्द्वितीयचतुर्थयोस्तृतीयचतुर्थयोर्द्वितीयस्तृतीयचतुर्थयोरिति चत्वारः। प्रथमस्त्रिज्वपीत्येकः। प्रथमो द्वितीये तृतीयश्चतुर्थे इति। प्रथमश्चतुर्थे द्वितीयस्तृतीय इति द्वौ। अर्धावृत्तिः श्लोकावृत्तिश्चेति । द्वे इति । यथा चक्रं दहतारं चक्रन्दहतारं । खड़ेन तवाजौ राजनरिनारी ॥४५१॥ [ रु. का. ३. ४. ] कश्चिद्राजानमाह-समूहम् , नता, अरिसंबन्धि, रुरोद भग्नाशा, अत्यर्थम् । 1. P. ताप १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy