SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ १०६) अ. ५. सू. २] काव्यानुशासनम् २९९ द्वौ समजातौ तत्प्रतिकृतिर्यमकम् । तेनैकस्याक्षरस्य द्वयोर्बहूनां वा द्वितीयं सदृशं निरन्तरं सान्तरं वा शोभाजनकमलङ्कारः । मधुपराजिपराजितमानिनी इत्यादावुभयेषामनर्थकत्वे २] स्फुटपरागपरागतपङ्कजम् । ४४३ । [ शि. व. स. ६. श्लो. इत्यादावेकेषामर्थवत्त्वेऽन्येषामनर्थकत्वेऽन्यार्थानामिति न युज्यते वक्तुमिति सत्यर्थे - इत्युक्तम् । न च तदर्थस्यैव शब्दस्य पुनः शक्यमुच्चारणं पौनरुक्त्यप्रसक्तेरिति सामर्थ्यलब्धेऽपि भिन्नार्थत्वे यत्र स एवार्थः प्रसङ्गेन पुनः प्रतिपिपादयिषितो भवति बन्धुबन्धुरत्वादिना च प्रयुक्त एव शब्दः पुनः प्रयुज्यते उदेति सविताताम्रस्ताम्र एवास्तमेति च । ४४४ । [सुभा. २२० ] इत्यादौ तत्र पौनरुक्त्यदोषाभावाद्यमकत्वं केन निवार्येतेत्यन्यार्थीनामित्युपात्तम् । श्रुत्यैक्यग्रहणं लोकप्रतीतितुल्यत्वपरिग्रहार्थम् । तेन दन्त्यौष्ठौष्ठव कारवकारादिवर्णभेदे लघुप्रयत्नतरालघुप्रयत्नतरकृते च भेदे, संयोगस्थयोः सजातीययोर्व्यञ्जनयोर्वास्तवे विशेषे यमकबन्धो न विरुध्यते । यथा तस्यारिजातं नृपते - रपश्यदवलम्बनम् । ययौ निर्झरसंभोगैर परश्यदबलं वनम् ||४४५॥ अवलम्बनं पाणिग्राहाक्रन्दासारादि । प्रपातपानीयास्वादैः पानीयानि तनूकुर्वत् । अबलं सैन्यरहितं वनं काननं । अत्रैकत्र वबौदन्त्योष्ठयौष्ठयौ । अपरत्र ओष्ठयदन्त्यौष्ठ्यौ । अपश्यदित्येकत्रैकः शकारोऽपरत्र द्रौ । तथा भवानि ये निरन्तरं तव प्रणामलालसाः । - मनस्तमोमलालसा भवन्ति नैव ते क्वचित् ॥ ४४६ ॥ [ दे. श. श्लो. ५९ 1. P. बन्धबन्धुरत्वादिना Jain Education International For Private & Personal Use Only ] १० १५ २० २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy