SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २९८ काव्यानुशासनम् [१०६) अ. ५ सू २ ते किं सन्ति न सन्ति सन्ति यदि वा के सन्ति सन्तीदृशाः । सर्वस्तेऽद्य गुणैगृहीतहृदयो लोकः कृतो वर्तते ॥४४२॥ १०६) सत्यर्थेऽन्यार्थानां वर्णानां श्रतिक्रमैक्ये यमकम् ।२। आवृत्तिरिति वर्तते । सत्यर्थे भिन्नार्थानां वर्णानां स्वरसहित. व्यञ्जनानामुपलक्षणाच्च वर्णस्य वर्णयोश्चावृत्तिः श्रुत्यैक्ये क्रमैक्ये च यमौ वर्णस्येति । वर्णस्य पादान्तरगतत्वेनावृत्तिर्न वैचित्र्यमादधातीति तस्मिश्रेव पादे आवृत्त्यन्तरविचित्रतायां नैरन्तर्येणावृत्तौ यमकता ज्ञेया । यथा नानाकारेण कान्तभ्रराराधितमनोभुवा । . विविक्तेन विलासेन ततक्ष हृदयं नृणाम् ॥४५६॥ [ मध्यान्तयोरपि उदाररचनारोचिर्भासुरा राजते कथा ।४५७। इति । अकलङ्कय शङ्काकामिन्दुमौले मतिं मम ॥४५८॥ यथा वाविविधधववना नागमर्धर्धनानाविविततगगनानाममज्जज्जनाना । शशरुरुललना नावबन्धुं धुनाना मम हि हिततनानाननस्वस्वनाना ॥४५९॥ [ का. लं. सू. ४. १. २. हरिप्रबोधादुद्धतः ] विविधानि धववनानि यस्याम् । नागान् हस्तिनो गृध्यन्ति अभिलषन्ति ऋद्धाश्चतुरा महान्तो वा नानाप्रकारा ये वयः पक्षिणो व्याडादयस्तैप्तिं गगनं यस्याम् । अविद्यमानो नामो नमनं यत्र तथाभूतं कृत्वा मज्जन्तो जना यत्र । अनितीत्यना संस्फुरेति यावत् । स्त्रीरूपिणी वा । शशानां रुरूणां च ललनं यस्याम् । नौ आवयोः । अबन्धु शत्रु धुनाना । मम यस्माद्धितं तनोति । अमुख आत्मीयः स्वन एव आनः प्राणो यस्याः सा । एवं समुद्रभूहरिणा हलधरं प्रत्यभिधीयते । वर्णयोर्यथा भ्रमर दुमपुष्पाणि भ्रम प्रीत्यै पिबन्मधु । का कुन्दकुसुमे प्रीतिः काकुं कृत्वा विरौषि यत् ॥४६०॥ [ ] तस्मिन्नेव पादे यथा हन्तहन्तररातीनां धीर धीरीता तव । काम कामन्दके नीतिरस्याऽऽरस्या दिवानिशम् ॥४६१॥ इति । १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy