SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २९६ काव्यानुशासनम् [१०५) अ. ५. सू. १ अनेकस्यासकदावृत्तिर्यथा-- सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धक्रुधि क्षामक्ष्मारुहि मन्दमुन्मधुलिहि स्वच्छन्दकुन्दद्रुहि । शुष्यत्स्रोतसि तप्तभूरिरजसि ज्वालायमानाम्भसि ग्रीष्मे मासि ततार्कतेजसि कथं पान्थ व्रजञ्जीवसि ॥४३४॥ [ सुभा. १७०८ भट्टबाणस्य ] अत्र 'रुधि' इत्यादेः। १०५) तात्पर्यमात्रभेदिनो नाम्नः पदस्य वा लाटानाम्।। शब्दार्थयोरभेदेऽपि अन्वयमात्रभेदिनो नाम्नः पदस्य वा एकस्योनकस्य वा सकृदसकृच्चावृत्तिाटानां संबन्धी लाटजनवल्लभोऽनुप्रासः । तत्रैकस्य नाम्नः सकृदावृत्तिः, यथा स एष भुवनत्रयप्रथितसंयमः शङ्करो बिभर्ति वपुषाधुना विरहकातरः कामिनीम् । अनेन किल निर्जिता वयमिति प्रियायोः करं करेण परिताडयञ् जयति जातहासः स्मरः ॥४३५॥ १. अत्र करेति नाम्नः । असकृद्यथा-- दशरश्मिशतोपमद्युति यशसा दिक्षु दशस्वपि श्रुतम् । दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः ॥४३६॥ [ र. वं. स. ८. श्लो. २९ ] अत्र दशेति नाम्नः । अनेकस्य सकृद्यथा-- 'जयति क्षुण्णतिमिरः' । ४३७ । इति । असकृयथावस्त्रायन्ते नदीनां सितकुसुमधराः शक्रसंकाश काशाः काशाभा भान्ति तासां नवपुलिनगताः स्त्रोनदीहंस हंसाः । 1. L. drops from स एव भुवनत्रय to यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy