________________
पञ्चमोऽध्यायः
' शब्दार्थौ सालङ्कारौ काव्यम्' इत्युक्तम् । तत्रालङ्काराणाम् 'अङ्गाश्रिता अलङ्काराः' इति सामान्यलक्षणमुक्तम् । अथ विशेषलक्षणस्यावसरस्तत्रापि शब्दालङ्काराणां षण्णां तावदाह
१०४) व्यञ्जनस्यावृत्तिरनुप्रासः ॥ १ ॥
व्यञ्जनस्येति जातावेकवचनम् । तेनैकस्यानेकस्य वा व्यञ्जनस्यावृत्तिः पुनः पुनर्निबन्धो रसाद्यनुगतः प्रकृष्टोऽदूरान्तरितो न्यासोऽनुप्रासः । तत्रैकस्य सकृदावृत्तौ न किञ्चिद्वैचित्र्यमर्थादसकृदावृत्तिर्लभ्यते । अनेकस्य तु सकृदसकृच्च । तत्रैकस्यासकृदावृत्तिर्यथा-
अनङ्गरङ्गप्रतिमं तदङ्गं भङ्गीभिरङ्गीकृतमानताङ्गयाः । कुर्वन्ति यूनां सहसा यथैताः स्वान्तानि शान्तापरचिन्तनानि । ४३० । [
]
अनेकस्य सकृदावृत्तिर्यथाततोऽरुणपरिस्पन्दमन्दीकृतवपुः शशी ।
दधे कामपरिक्षाम कामिनीगण्डपाण्डुताम् ॥ ४३१ ॥ [ सुभा. २१५३. भगवद्वालमीकिमुनेः ] अत्र ‘रु-रि-द-न्दि’-इत्यादेरनेकस्य सकृदावृत्तिः । यथा वानितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन । चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गमनौ ॥ ४३२ ॥ [ र. वं. स. ७. श्लो. २५] अत्र द्वयोर्द्वयोस्त्रयाणां त्रयाणां च व्यञ्जनानां सकृदावृत्तिः ।
यथा वा
―
'धूसरितसरिति' । ४३३ । इति ।
षष्णामिति । अनुप्रासयमकचित्रश्लेषवक्रोक्तिपुनरुक्ताभासानाम् ।
1. N. षडिति
Jain Education International
For Private & Personal Use Only
१०
१५
२०
www.jainelibrary.org