________________
२९०
काव्यानुशासनम् [९९) अ. ४. सू. ५ दारुणरणे रणन्तं करिदारणकारणं कृपाणं ते । रमणकृते रणरणकी पश्यति तरुणीजनो दिव्यः ॥४२२॥
[
न पुनरेवं यथा
अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि माम् । कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ॥४२३।।
१५
अत्र शृङ्गारप्रतिकूला वर्णाः ।
बाले मालेयमुच्चैनं भवति गगनव्यापिनी नीरदानां किं त्वं पक्षान्तवान्तैर्मलिनयसि मुधा वक्त्रमथुप्रवाहैः । एषा प्रोत्तमत्तद्विपकटकषणक्षुण्णविन्ध्योपलाभा दावाग्नेोम्नि लग्ना मलिनयति दिशां मण्डलं धूमलेखा ॥४२४॥
[सुभा. १७१६. धाराकदम्बस्य ] अत्र दीर्घसमासः परुषरचना च विप्रलम्भशृङ्गारे विरुद्धा । ओजसो लक्षणमाह
९९) दीप्तिहेतुरोजो वीरबीभत्सरौद्रेषुक्रमेणाधिकम् ॥५॥
दीप्तिरुज्ज्वलता, चित्तस्य विस्तार इति यावत् । क्रमेणेति वीराद बीभत्से ततोऽपि रौद्रे, तेषामङ्गेऽद्भुते च सातिशयमोजः । ___एतद्यञ्जकानाह
न पुनरेवमिति । अयं भाव:-यथान्यैः प्रतिकूलवर्णलक्षणो दोष उक्तस्तथा न वाच्च एतद्गुणविपर्ययेणैव स्वीकृतत्वात् तस्य ।
वर्णा इति । समासरचनयोरुपलक्षणमिदम् । माधुर्योजःप्रसादव्यञ्जकेषु च वर्णादिध्वभिहितेषु वृत्तयो रीतयश्चाभिहिता एव । तदव्यतिरिक्तस्वरूपत्वात्तासाम् ।
1. I. करिदारुणकारणं 2. I. कलिकण्ठि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org