________________
१००--१०२) अ. ४ सू. ६-८] काव्यानुशासनम् २९१
१००) आयतृतीयाक्रान्तौ द्वितीयतुर्यौ युक्तो रेफस्तुल्यश्च टवर्गशषा वृत्तिदैर्घ्यमुद्धतो गुम्फश्चात्र ॥६॥ ___आयेन द्वितीयस्तृतीयेन चतुर्थ आक्रान्तो वर्णस्तथाध उपरि उभयत्र वा येन केनचित्संयुक्तो रेफस्तुल्यश्च वर्णो वर्णेन युक्तस्तथा टवर्गोऽर्थाण्णकारवर्जः, शषौ च । दीर्घः समासः, कठोरा रचना च। ५ अत्रौजसि । ओजसो व्यक्षिकेत्यर्थः । यथा
मूर्धामुत्तकृत्ताविरलगलगलद्रक्तसंसक्तधारा धौतेशांहिप्रसादोपनतजयजगज्जातमिथ्यामहिम्नाम् । कैलासोल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदर्पोद्भुराणां दोष्णां चैषां किमेतत्फलमिह नगरीरक्षणे यत्प्रयासः ॥४२५॥
न पुनरेवं यथा
देशः सोयमरातिशोणितजलैर्यस्मिन्हदाः पूरिताः क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः । तान्येवाहितशत्रघस्मरगुरूण्यस्त्राणि भावन्ति नो यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः ॥४२६॥
1 [वे. सं. अं. ३. श्लो. ३३ ] अत्र च यथोक्तवर्णाभावोऽनुद्धता रचना असमासश्च विरुद्धः । अथ प्रसादलक्षणमाह--
१०१) विकासहेतुः प्रसादः सर्वत्र ॥७॥
विकासः शुष्कन्धनाग्निवत्स्वच्छजलवच्च सहसैव चेतसो व्याप्तिः। सर्वत्रेति सर्वेषु रसेषु । एतब्यञ्जकानाह
१०२) इह श्रुतिमात्रेणार्थप्रत्यायका वर्णवृत्तिगुम्फाः ॥८॥
श्रुत्यैवार्थप्रतीतिहेतवो वर्णसमासरचनाः । इह प्रसादे । प्रसादस्य व्यञ्जका इत्यर्थः । यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org