________________
९६-९८) अ. ४. सू. २-४ ] काव्यानुशासनम् २८९
तत्र माधुर्यस्य लक्षणमाह९६) द्रुतिहेतु माधुर्य शृङ्गारे ॥२॥
द्रतिरार्द्रता गलितत्वमिव चेतसः । शृङ्गारेऽर्थात्संभोगे । शृङ्गारस्य च ये हास्याद्भुतादयो रसा अङ्गानि तेषामपि माधुर्यं गुणः ।
९७) शान्तकरुणविमलम्भेषु सातिशयम् ॥३॥
सातिशयमिति । अत्यन्तद्रुतिहेतुत्वात् । एतद्यञ्जकानाह
९८) तत्र निजान्त्याक्रान्ता अटवर्गा वर्गा हस्वान्तरितौ रणावसमासो मृदुरचना च ॥४॥
निजेन निजवर्गसम्बन्धिनान्त्येन जणनमलक्षणेन शिरस्याक्रान्ता १० अ-टवर्गाः टठडढरहिता वर्गा हस्वान्तरितौ च रेफणकारौ । असमास इति । समासाभावोऽल्पसमासता वा, मृद्वी च रचना । तत्र माधुर्ये माधुर्यस्य व्यञ्जिकेत्यर्थः । यथा
शिञ्जानम मञ्जीराश्चारुकाञ्चनकाञ्चयः । कङ्कणाङ्कभुजा भान्ति जितानङ्ग तवाङ्गनाः ॥४२१॥ तदेवं यथान्यैर्गुणानां लक्षणमभिहितं तथा न वाच्यम् । यथायोग लक्षणव्यभिचाराद्विवक्षितगुणेष्वन्तर्भावाद्दोषपरिहारेण स्वीकृतत्वाच्चेति । __ द्रुतिरिति । द्रुतिहेतुत्वं माधुर्यस्य लक्षणं न तु श्रव्यत्वम् । ओजःप्रसादयोरपि श्रव्यत्वात् । तेन (131) ' श्रव्यं नातिसमस्तार्थशब्दं मधुरमिष्यते' [ का. लं. परि. २. श्लो. २ ] इति माधुर्यलक्षणत्वेन श्रव्यत्वं यद्भामहेनोक्तं तन्न युक्तमित्यर्थः । ___ अर्थादिति । यद्यपि संभोगविप्रलम्भोभयरूपः शृङ्गारस्तथापि गोबलीवर्दन्यायेनानन्तरविप्रलम्भप्रयोगसामर्थ्याच्छृङ्गारः संभोग इत्युक्तः ।
अङ्गानीति । यद्यपि हास्याद्भुतयोविकासहेतुतया ओजोऽप्यस्ति तथापि शृङ्गाराङ्गतया माधुर्यमेव प्रकृष्टं प्रतीयत इत्यर्थः । 1. P. omtis ण 2. P. drops यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org