SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २८८ काव्यानुशासनम् [९१) अ. ४. सू. १ शार्दलादिषु समता यथागाहन्तां महिषा निपानसलिलं शुजैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु । विस्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले विश्रान्ति लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥४४८॥ [शा. भं. २. श्लो. ६ ] विषमवृत्तेष्वौदार्य यथा‘निरवधि च निराश्रयं च-' ॥४४९॥ [ ] इति । सोऽयमनवगाहितप्रयोगाणां विभागक्रमः । तथा हि-स्रग्धरादिष्वनोजोऽपि १० यथा शंभो केयं स्थिता ते शिरसि शशिकला किं नु नामैतदस्या नामैवास्यास्तदेतत्परिचितमपि ते विस्मृतं कस्य हेतोः । नारी पृच्छामि नेन्दु कथयतु विजया न प्रमाणं यदीन्दुदेव्या निहोतुमिच्छोरिति सुरसरितं शाठ्यमव्याद्विभोर्वः ॥४५०॥ [मु. रा. अं. १. लो. १ ] इन्द्रवज्रादिष्वप्रसादो यथाविविच्छ बाधाः प्रभवन्ति यत्र न तत्र मिथ्यामतयश्चरन्ति । संसारमोहस्त्वयमन्य एव दिङ्मोहवत् तत्त्वधिया सहास्ते ॥४५१॥ मन्दाक्रान्तादिष्वमाधुर्य यथासर्वप्राणप्रगुणमघवन्मुक्तमाहत्य वक्षस् तत्संघटाद्विघटितबृहत्खण्डमुम्चण्डरोचिः । एवं वेगात्कुलिशमकरोद्योमविद्युत्सहस्रेभर्तुर्वक्त्रज्वलनकपिशास्ते च रोषाट्टहासाः ॥४५२॥ [म. च. अं. १ *लो. ४५ ] शार्दूलादिष्वसाम्यं यथा'अज्ञानाद्यदि वाधिपत्यरभसात् ' ॥४५३॥ [ ] इति विषमवृत्तेष्वनौदार्य यथाअयमहिमरुचिर्भजन्प्रतीची कुपितबलीमुखतुण्डताम्रबिम्बः । जलनिधिमकरीभिरीक्ष्यते दाग नवरुधिरारुणमांसपिण्डलोभात् ॥४५४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy