SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ९५) अ. ४ स. १] काव्यानुशासनम् २८७ ५ वर्णना यथा वदनस्य तवैणाक्षि लक्ष्यते पुरतः शशी । पिण्डीकृतेन बहुना कज्जलेनेव निर्मितः ॥४४३॥ [ सेयमतिशयोक्तेर्यन्त्रणा न पुनर्गुणान्तरमिति । अर्थगुणस्तु (130) 'दीप्तरसत्वं कान्तिः ' इति वामनः । [का. लं. सू. अधि. ३. अ. २ सू. १४] यथा-- प्रेयान्सोऽयमपाकृतः सशपथं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनाद्यावन यात्युन्मनाः । तावत्प्रत्युत पाणिसंपुटलसन्नीवीनिबन्धं धृतो धावित्वैव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः ।।४४४॥ १० रौद्रादयो हि दीप्ता रसास्ततोऽन्ये तु शृङ्गारादयस्तद्विपरीतास्तनिषन्धनमकान्तिस्तर्हि स्यात् । अथवा व्यङ्गयरसादिस्वरूपनिरूपणेनैव कान्तिः स्वीकृतेति । ___ ओजःप्रसादमधुरिमाणः साम्यमौदार्य च पञ्चेत्यपरे । तथा हि-यददर्शितविच्छेदं पठतामोजः, विच्छिद्य पदानि पठतां प्रसादः, आरोहावरोहतरङ्गिाणि पाठे माधुर्यम् , ससौष्ठवमेव स्थानं पठतामौदार्यम् , अनुच्चनीचं पठतां साम्यमिति । तदिदमलीकं कल्पनातन्त्रम् । यद्विषयविभागेन पाठनियमः स कथं गुणनिमित्तमिति । छन्दोविशेषनिवेश्या गुणसंपत्तिरिति केचित् । तथा हि । स्रग्धरादिष्वोजः । यथा ताम्यत्यामजमज्जन्मणिमसृणफणाचक्रवाले फणीन्द्रे यत्सेनोद्दामहेलाभरचलितमहाशैलकीलां बभार । कृच्छ्रात्पातालमूलाविलहलनिरालम्बजम्बालनिष्टः पृष्ठाष्ठीलप्रतिष्ठामवनिमवनमत्कर्परः कूर्मराजः ॥४४५॥ [ इन्द्रवज्रोपेन्द्रवज्रादिषु प्रसादो यथायथा यथा स्याः पदमङ्गकेषु प्रमोदलक्षम्या निदधे मदस्य । तथा तथा कार्मुकमाततज्य प्रसूनधन्वाकलयांचकार ॥४४६॥ मन्दाक्रान्तादिषु माधुर्य यथा' किं व्यापारैः' ।४४४॥ इति । 1. N. ० लील Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy