SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २८६ काव्यानुशासनम् [९५) अ. ४ सू. १ यथाददृशुरिदेशस्थां सीतां वल्कलधारिणीम् । अङ्गदाहादनङ्गस्य रतिं प्रव्रजितामिव ॥४३८॥ [ तदिदं माधुर्यसाधारणमिति वामनीयाः । तस्मात(128) 'औज्ज्वल्य कान्तिः ' [का. लं सू. अधि. ३. अ. १ सू. २५ ] यदभावे पुराणी बन्धच्छायेयमिति व्यपदिशन्ति । यथा - स्त्रीणां केतकगर्भपाण्डुसुभगच्छेदावदातप्रभे मन्दं कुड्मलिताः कपोलफलके लावण्यनिष्यन्दिनी । अन्यां कामपि कामनीयककलामातन्वते नूतनां शीतांशोबिंसकन्दकन्दलशिखामुग्धत्रियो रश्मयः ॥४३९॥ [ ] ओजोऽप्योज्ज्वल्ययोगात्तर्हि कान्तिः । (129) तस्मालोकसीमानतिक्रमः कान्तिरिति दण्डो । [ *] सा च द्विधा वार्तावर्णनयोः । तत्रोपचारवचनं वार्ता । प्रशंसावचनं वर्णना । वार्ता यथा एते वयममी दाराः कन्येयं कुलजीवितम् । ब्रत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ॥४४०॥ [ कु. सं. स. ६. *लो ६३ ] वर्णना यथातदाननं निर्जितचन्द्रकान्त कंदर्पदेवायतनं मनोज्ञम् । प्रदक्षिणीकर्तुमितः प्रवृत्ते विलोचने मुग्धविलोचनायाः ॥४४१॥ लोकसीमातिक्रमः पुनरकान्तिः । तत्र वार्ता यथामम दृष्टस्य राजेन्द्र तव दीर्पण चक्षुषा ।। चरणद्वितयस्याग्रे नित्यं लुठति चन्द्रमाः ॥४४२॥ x कान्तं सर्वजगत्कान्तं लौकिकार्थानतिक्रमात् । तञ्च वार्ताभिधानेषु वर्णनास्वपि दृश्यते ॥ का. द. परि. १. 'लो. ८५. 1. A. B. द्विधा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy