________________
९५) अ. ४. सू. १]
काव्यानुशासनम्
२८५
अवोचद्यं पश्येत्यवतु स शिवः सा च गिरिजा स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः ॥४३५॥
[सुभा, लो. ६६ चन्द्रकस्य ] सोऽयं प्रसादादभिन्न इति वामनीयाः । तस्माद्यत्र पुरस्तादिव वस्तुनोऽवगतिः पश्चादिव वाचां सार्थव्यक्तिः । यथा
महेश्वरे वा जगतां महेश्वरे जनार्दने वा जगदन्तरात्मनि । न वस्तुभेदप्रतिपत्तिरस्ति मे तथापि भक्तिस्तरुणेन्दुशेखरे ॥४३६॥
(124) सोऽयमुक्त्यन्तराभिहितः प्रसाद एवेति दण्डी। तस्मादनेयार्थत्वमर्थस्यार्थव्यक्तिः । [ का. द. परि. १ 'लो. ७३ ] तत्र चास्तोकमुदाहरणम् । दोषाभावोऽयं कथमिव गुणः । तथा चेद्बहुत्वाद्दोषाणां शतं गुणाः' . स्युः । अर्थगुणस्तु (125) वस्तुनः स्फुटत्वमर्थव्यक्तिः । [ का. लं. सू. अधि.. ३ अ. २. सू. १३ । यथापृष्ठेषु शङ्खशकलच्छविषु च्छदानां राजीभिरङ्कितमलतकलोहिनीभिः । गोरोचनाहरितबभ्रु बहिः पलाशमामोदते कुमुदमम्भसि पल्वलस्य ॥४३॥ १५
-
१०
x
कविवचनवैशारद्यतो वस्तुनः स्फुटत्वं न निसर्गतः । तदुक्तम्(126) निवेशयति हृद्यान्न तथापि तथेति वा ।
महाकवीनां विकटा वाणी विजयतामसौ ॥ [ अपि च । जाति मायमलङ्कार इति । (127) श्रोत्रमनःप्रह्लादजनकं कान्तमिति भरतः । [ x अर्थव्यक्तिरनेयत्वम् ॥ + वस्तुस्वभावस्फुटत्वमर्थव्यक्तिः । 1. A. drops महाकवी० x यो मनःश्रोत्रविषयः प्रसादजनको भवेत् । शब्दवन्धः प्रयोगेण स कान्त इति भण्यते ॥
ना. शा. अ. १७ श्लो. १०७ ( C. S. S. ) यन्मनःश्रोत्रविषयमाहादयति हीन्दुवत् । लीलाद्यर्थोपपन्नां वा तां कान्ति कवयो विदुः ।।
ना. शा. अ. १६. लो. १०३ (N. S.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org