SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २८३ ९५) अ. ४ सू. १] काव्यानुशासनम् सोऽयं दोषभावो न गुणः एतेनोक्तिवैचित्र्यरूपं माधुर्य वामनोक्तोऽप्यर्थगुणो निरस्त एव । तस्मादाह्लादकत्वं माधुर्यमिति । (117) सुखशब्दार्थ सुकुमारमिति भरतः । [ यथाअङ्गानि चन्दनरजःपरिधूसराणि ताम्बूलरामसुभगोऽधरपल्लवश्च । अच्छाजने च नयने वसनं तनीयः कान्तासुभूषणमिदं विभवावशेषः ।४२९॥ २० (118) 'सुखशब्दमेव' इति वामनः । [ यथाहरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशालौ । भुजे सचीपत्रलताक्रियोचिते स्वनामचिहं निचखान सायकम् ॥४३०॥ . [र. वं. स. ३. श्लो. ५५ ] सोऽयं श्रुतिकटुत्वदोषभावो न गुणः । माधुर्यप्रकार एवायम् । अर्थगुणस्तु (119) ' अपारुष्यं सौकुमार्यम्' । [का. लं. सू. अधि. ३. अ. २, सू. ११] यथास किलेन्द्रप्रयुक्तेन शौरिणा भूमिनन्दनः । चक्रघातोपदिष्टाध्वा नीतोऽत्यन्तप्रवासताम् ॥४३१॥ सोऽयममङ्गलरूपाश्लीलत्वदोषाभावो न गुणः । यदि वा उक्तिविशेषः पर्यायोक्तालंकारविषय एवासौ । (120) बहुभिः सूक्ष्मैश्च विशेषैः समेतमुदारमिति भरतः [ ] 1. A. B. हादत्व + सुखप्रयोज्यैर्यच्छन्दैर्युक्तं सुश्लिष्टसन्धिमिः । सुकुमारार्थसंयुक्तं सौकुमार्य तदुच्यते ॥ ना.शा. अ. १७. *लो, १०४ (C. S. S.) मुख्यप्रयोज्यैर्यच्छन्दैर्युक्तं सुश्लिष्टसंधिभिः । सुकुमारार्थसंयुक्तं सुकुमारं तदुच्यते ॥ ना, शा. अ. १६ श्लो. १०९ (N. S.) 2. A. B. सुलभो x अजरठत्वं सौकुमार्यम् ॥ का. लं. सू. अधि. ३. अ. १ सू. २१ 3. N. दिग्धावा. : अनेकार्थविशेषैर्यत् सूक्तैः सौष्ठवसंयुतैः । उपेतमतिचित्रार्थेः उदात्तं तच्च कीर्त्यते ॥ ना. शा.अ.१७ श्लो. १०६ (C.s. S.) दिव्यभावपरीतं यच्छृङ्गाराद्भुतयोजितम् । अनेकभावसंयुक्तमुदारं तत्प्रकीर्तितम् ॥ ना. शा. अ. १६ *लो. १०२. (N. S.) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy