________________
२८२
१०
१५
२०
काव्यानुशासनम्
[ ९५) अ. ४ सू. १
सेयमुपचरिता वृत्तिरिति चेद्गुणः, योगवृत्त्या किमपराद्धमिति । अर्थगुणस्तु (112) अर्थदृष्टिः समाधिः ' [ का. लं. सू. अधि. ३. अ. २. सू. ६ ]
6
यथा-
अग्रादपि मध्यादपि मूलादपि सर्वतोऽप्यशोकस्य । पिशुनस्थमिव रहस्य यतस्ततो निर्गतं कुसुमम् ॥ ४२६॥ [
}
अर्थस्यायोनेरन्यच्छायायोनेर्वा यदि न भवति दर्शनं तत्कथं काव्यं स्यात् । ततश्च सकलसत्कविदृष्टः काव्यार्थः समाधिः स्यादिति नार्थगुणः समाधिः । (113) बहुशो यच्छ्रुतमभिहितं वा वाक्यमनुद्वेजकं मनसः तन्मधुरमिति
भरतः ।
[
दयितजनरूक्षाक्षराक्षेपवचनेऽपि तत्समानमिति वामनीयाः । तस्मात् (114) पृथक्पदत्वं माधुर्यम् ' [ का. लं. सू. अधि. ३. अ. १. सू. २० ] ( 115 ) तदिदमनुभवविरुद्धमिति दण्डी । समासेऽपि माधुर्यस्य दर्शनात् ।
यथा
→
<
अनवरतनयनजललवनिपतनपरिमुषित पत्रलेखान्तम् ।
करतलनिषण्णमबले वदनमिदं किं न तापयति ॥ ४२७|| इति ।
[
]
,
तस्माद (116) 'रसवन्मधुरम् । [ का. द. परि. १ श्लो. ५१ रस द्विधा - वाग्वस्तुविषयत्वेन । तयोः श्रुतिवर्णानुप्रासाभ्यां वाग् रसः । अनुप्रासो ह्यलङ्कारः । कथं तस्य गुणत्वम् । अग्राम्याभिधेयता तु वस्तुरसः । असभ्यार्थनिबन्धनं हि ग्राम्यता । यथा
ब्रह्मचर्योपतप्तोऽहं त्वं च क्षीणा बुभुक्षया ।
भद्रे भजस्व मां तूर्ण तव दास्याम्यहं पणम् ॥ ४२८ ॥ [ : अर्थों द्विविधोऽयोनिरन्यच्छायायोनिश्च ॥
Jain Education International
+ बहुशो यच्छुतं वाक्यमुक्तं वापि पुनः पुनः । नोद्वेजयति यस्माद्धि तन्माधुर्यमिति स्मृतम् ॥
का. लं. सू. अधि. ३. अ. २ सू. ७
बहुशो यत्कृतं काव्यमुक्तं वापि पुनः पुनः । नोद्वेजयति तस्माद्धि तन्माधुर्यमुदाहृतम् ॥
1
ना. शा. अ. १७. लो. १०२ (C. S. S.)
ना. शा अ. १६. लो. ९८ ( N. S.)
For Private & Personal Use Only
www.jainelibrary.org