SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ९५) अ. ४ सू. १] काव्यानुशासनम् यथा परिणतशरकाण्डच्छायमच्छाच्छया यत् किसलयितमिवासीच्चारुलावण्यलक्ष्म्या । तदनुदिवसमस्यास्तोयविच्छेदसीदन् नवकुवलयदामश्यामलं जातमङ्गम् ॥४२२॥ [ सोऽयमतिशयोक्तिविशेष इति वामनीयाः। तस्मात् (110) आरोहावरोहक्रमः समाधिः'। [का. लं. सू. अधि. ३. भ. १. सू. १२ ] तत्रारोहपूर्वोऽवरोहो यथाशङ्गोत्खातभुवः कृतान्तमहिषादुरस्त उच्चैःश्रवाः श्रुत्वैरावणकण्ठगजितमय क्रुद्धोऽम्बिकाकेसरी । संगीतागतकम्बलाश्वतरयोः प्रेक्षागृहद्वारि च प्रेक्ष्य स्कन्दशिखण्डिनं चकितयोः कस्मान्मुखं म्लायति ॥४२३॥ अवरोहपूर्व आरोहो यथायद्वाभिर्जगाहे गुरुशकुलकुलास्फालनत्रासहासव्यस्तोरुस्तम्भिकाभिर्दिशि दिशि सरितां दिग्जयप्रक्रमेषु । अम्भो गम्भीरनाभीकुहरकवलनोन्मुक्तिपर्यायलोलत्कल्लोलाबद्धमुग्धध्वनिचकितकणत्कुङ्कुमै कामिनीमिः ॥४२४॥ (111) तदिदं गुरुलघुसंचययोरन्योन्यान्तरणमिति दण्डी । तस्मादन्य- २० धर्मस्यान्यत्र समाधानात्समाधिः । [ का. द. परि. १. श्लो. ९३ ]+ यथा प्रतीच्छत्याशोकी किसलयपरावृत्तिमधरः कपोलः पाण्डुत्वादवतरति ताडीपरिणतिम् । परिम्लानप्रायामनुवदति दृष्टिः कमलिनीमितीयं माधुर्य स्पृशति च तनुत्वं च भजते ॥४२५॥ [ अभियुक्त विशेषस्तु योऽर्थस्यैवोपलभ्यते । तेन चार्थेन संपन्नः समाधिः परिकीर्त्यते ॥ ना. शा. अ. १६ लो. ९७ (N. S.) + अन्यधर्मस्ततोऽन्यत्र लोकसीमानुरोधिना । सम्यगाधीयते यत्र स समाधिः स्मृतो यथा ॥ 1. C. परिणति; A. drops परिणति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy